________________
४८ अथ व्यञ्जनान्ताः पुलिङ्गाः । दशानुबिम्बैनखदर्पणान्तरा विकासकाशो दशदिक्षु चन्द्रः। नेत्राभिनन्दीय उपासनेन चन्द्रप्रभः समभवः श्रियेऽस्तु ॥१॥ चकारान्तः सुवाचशब्दः।
__ चजः कगम् ॥२॥१॥८६॥ चकारजकारयोधुटि प्रत्यये पदान्ते च कगौ स्याताम् । घुटस्तृतीय इति गये।
विरामे वा ॥१३५१॥ विरामे वर्तमानस्याशिटो घुटः प्रथमो वा स्यात् । सुवाक् । सुवाग । सुवाचौ । सुवाचः। सुवाग्भ्याम् । सुवाकसु इतिस्थिते नाम्यन्तस्थेत्यादिना पखे कषयोर्योगे क्षः । इति लोकात् । सुवाच । हे सुवाक । हे सुवाग । प्रकर्षणाचतीति विग्रहे किपि प्राशब्दे ।
अञ्चोऽनर्चायाम् ॥४॥२॥४६॥ अश्वेरपूजार्थे वर्तमानस्यैवोपान्त्यनकारस्थ स्लुक स्यात् किति जिति च परे । अन_यामिति किम् ? अश्चितोऽतिथिः । प्राच् स् इति स्थिते ।
अचः ॥१॥४॥९॥ अश्चतेर्धातोश्रृंडन्तस्य तदतत्सम्बन्धिनि घुटि परे धुदः प्राय नोऽन्तः स्यात् दीर्घस्थावितिसे कि पदस्येतिचकारलुकि।
युजञ्चक्रुश्चो नो ङः ॥२।०७१॥ युजचक्रुश्चां नकारस्य पदान्ते उकारः स्यात् । प्राङ् । मां घुड्वर्गे इत्यनेन अस्वम् । प्राञ्चौ । प्रानः । प्राच अस इति स्थिते ।
अच्च् प्राग्दीर्घश्च ॥२॥१॥१०४॥ अजिति लुप्तनकारस्याचतेनिर्देशः । अच् इति नाम णिक्य घुटि वर्जिते यकारादौ स्वरादौ च प्रत्यये परे च इति व्यञ्जनमात्रं स्यात् । पूर्वस्यानन्तरस्य स्वरस्य दीर्घः स्यात् । प्राचः । प्राचा । प्रारभ्याम् । प्राग्भिः। प्राचे । प्राचः । हे प्राङ् । प्रत्यञ्चतीति प्रत्यडू । प्रत्यञ्चौ। प्रत्यश्चः । प्रत्यञ्चम् । प्रत्यचौ। अचोऽत्र चकारमात्रावस्थानात् निमित्ताभावे नैमित्तिकस्य यकारस्याप्यभावे पूर्वकारस्य दीर्धे च प्रतीचः । प्रतीचा । प्रत्यग्भ्याम् इत्यादि । अमुम् अञ्चतीति विग्रहे । सर्वादिविष्वग्देवाइ डद्रिः कयञ्चौ ॥३।२।१२२॥ सर्वादेर्विष्वग्देवशब्दाभ्यां च परः किबन्तेऽश्चतावुत्तरपदे परे डद्रिरित्यन्तः