________________
४७
यो नाम्यन्तः शब्दोऽन्यतो विशेष्यवशात् नपुंसकः स टादौ खरे परे पुंवद्वा स्यात् । यथा पुंसि नागमहखौ न स्तस्तथात्रापि न स्तः । इह शब्दा द्विविधाः। केचिद्दध्यादिवजातिशब्दाः खतो लिङ्गभाजः । परे गुणक्रियाद्रव्यादिसम्बन्धात् पटु मृदु प्रमुखा विशेष्यानुरूपलिङ्गभाजः । ग्रामणि । ग्रामणिनी । ग्रामणीनि । ग्रामण्या । ग्रामणिना कुलेन । ग्रामण्ये । प्रामणिने कुलाय । प्रामण्यः २। ग्रामणिनः २। शेषं वारिवत् । प्रियास्तिस्रो यस्य तत् प्रियत्रि कुलम् । स्यमोठेपा लुप्तवेन प्रत्ययलक्षणाभावान्न तिस्रादेशः । प्रियास्तिस्रो यस्य कुलस्येति विग्रहे नामिनो लुग्वेतिस्थानिवद्भावात् प्रियतिस् । अनीतिनिषेधात् प्रियतिमृणी । प्रियतिस्रा। प्रियतिसृणा । इत्यादि विकल्पात् । प्रियतिमृणां कुलानाम् । नात्र दीर्घः । प्रियास्त्रयः प्रियाणि त्रीणि वा यस्य प्रियत्रि कुलम् । मात्र तिस्रादेशः । अवयवख्याभावात् ।
दध्यस्थिसक्थ्यक्ष्णोऽन्तस्थान् ॥१॥४॥३३॥ एषां नपुंसकानां नाम्यन्तानां तदतत्सम्बन्धिनि टादौ खरे परेऽन्तस्थान इत्यादेशः स्यात् । दधि । दधिनी । दधीनि । दधन आ इतिस्थिते ।
अनोऽस्य ॥२॥१॥१०८॥ अनोऽकारस्य डीस्याद्यधुटखरेपरे लुक स्यात् । दना । अन विशेषविधानात्परोऽपि नाऽऽगमोऽनादेशेन बाध्यते । दध्ने । दनः २। दुनोः २। दनाम् ।
ई ङौ वा ॥२॥१११०९॥ ___ अनोऽकारस्य औ प्रत्ययादेशे उौ च परे लुग्वा स्यात् । दधनि । दनि । शेषं वारिवत् । सुधि । सुधिनी । सुधीनि । हे सुधे । हे सुधि । सुधिया। सुधिना। प्रध्या। प्रधिना । अपु । त्रपुणी । पूणि । हे त्रपु । हे प्रपो। त्रपुणा । त्रपुणे । पुणः २। पुणोः २त्रपूणाम् । पुणि। एवमम्बुप्रमुखाः । सानु । सानुनी सानूनि । अत्र शसादौ स्तुहत्यादेशे स्लूनि । सानूनि इति केचित् । लुना। सानुना । प्रियक्रोष्टु । प्रियक्रोष्टुनी । प्रियक्रोष्ट्रनि । टादौ प्रियक्रोष्ट्रा । प्रियक्रोष्टना। प्रियक्रोष्ट्रे । प्रियक्रोष्टचे । प्रियक्रोष्टुने । सुलु । सुलुनी। सुलूनि । मुल्वा । सुलुना। कर्तृ । कर्तृणी । कर्तृणि । हे कर्तः । हे कर्तृ । का कर्तृणा। करॆ । कर्तृणे कर्तुः २ । कर्तृणः २ । कोंः २। कर्तृणोः २। कर्तृणाम् । कर्तरि । कर्पणि । क्लीये इति इखत्वे एकारैकारयोरित् । ओकारीकारयोरुर्वाच्यः । प्रद्यु । प्रधुनी । प्रचूनि। परि । प्ररिणी । परीणि । एकदेशविकृतस्यानन्यवादारायो व्याने इत्यावे प्रराभ्याम् । प्रराभिः । परीणाम् । प्रराणामिति कश्चित् । सुनु । मुनुनी । सुनूनि । सुनुना । सुनुने।
इति स्वरान्ता नपुंसकलिङ्गाः ॥