________________
जरसो वा ॥१४॥६॥ जरसन्तस्य नपुंसकस्य स्यमोलुब्वा स्यात् । तेन अतिजरः इत्यपि । अतिजरसी। अतिजरे । शौ परवाजरस्।
धुटां प्राक् ॥१॥४॥६६॥ खरात्परा या धुजातिस्तदन्तस्य नपुंसकस्य धुझ्य एव प्राक् शौ परे मोऽन्तः स्यात् । अतिजर न् स् इ इति जाते
न्समहतोः ॥१॥४॥८६॥ न्स इत्यन्तस्य महच्छब्दस्य च खरस्य शेषे घुटि परे दीर्घः स्यात् । अतिजरांसि । अतिजराणि वा । अतिजरसम् । अतिजरम् वा । अतिजरसी अतिजरे । अतिजरांसि । अतिजराणि । शेषं पुंवत् । हृदयशब्दे दन्तपादेत्यादिना हृदू । हृदयम् । हृदये । हृदयानि । हृदयम् । हृदये । हृदयानि । हृन्दि । हृदयेन । हृदा । हृदयाभ्याम् । हद्भ्याम् इत्यादि । उदकम् । उदके । उदकानि । उदनादेशे उदानि । उदुना । उदभ्याम् । आसनशब्दस्य आसन् इत्यादेशे आसानि। आला। आसभ्याम् । यस्तु आस्यशब्दस्यासन्नादेशं मनुते तस्य वैदिकमत्रप्रयोगानुसरणमेव शरणं वारसिकम् । न पुनः शाब्दिकं सम्मतम् । मांसशब्दे मांसू इत्यादेशस्तु न बहुसम्मतः । मांसस्य पचियुघमोरित्यत्रैव नियमात् ।
क्लीवे ॥२।४।९७॥ खरान्तस्य नपुंसकस्य हवः स्यात् । विश्वपं कुलम् ।
अनतो लुप् ॥१४॥५९॥ अनकारान्तस्य नपुंसकस्य स्यमो प् स्यात् । वारि । लुकमकृस्वा लुप्करणं स्थानिवद्भावनिषेधार्थम् । तेन यत् तत् इत्यादी आदेर इत्यत्वं न स्यात् ।
अनाम् स्वरे नोऽन्तः ॥१॥४॥६४॥ ___ नाम्यन्तस्य नपुंसकस्याम्वर्जितस्यादौ खरे परे नोऽन्तः स्यात् । वारिणी। धारीणि । पुनरेतदेव । वारिणा । वारिभ्याम् । वारिभिः। वारिणे । वारिणः २। वारिणो २। आमि हखापश्चेति नामि दीर्घत्वे च वारीणाम् । प्रियवारये पुंसे इत्यत्र न नोऽन्तः । तत्सम्बन्धिविज्ञानात् । वारिणि । वारिषु ।
नामिनो लुग्वा ॥१४॥१॥ नाम्यन्तस्य नपुंसकस्य स्यमोटुंग्या स्यात् । हे वारे । पक्षे हे वारि । व्यञ्जनादिविभक्तो मुनिवत्।।
वान्यतः पुमाँष्टादौ खरे ॥१४॥६२॥