________________
४५
वर्षाभूः । कैटते पुनर्नवायां तु हे वर्षासु । वर्षाभ्यो । वर्षाभ्वः । स्वयम्भूः पुंवत् । वधूजम्ब्वादयो देवीवत् । स्त्रियां नृतोऽखस्रादेरिति वक्ष्यमाणत्वात्स्रादिभ्यो न ङीप्रत्ययः । 'खसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा । याता मासेति सप्तैते खस्रादय उदाहृताः ॥ १ ॥ स्वसा । तृस्वस्र इत्यादिना खसारौ । खसारः । माता पितृवत् । शसि मातृः । यौगवत् । राः पुंवत् । नौग्लवत् । इति खरान्ताः स्त्रीलिङ्गाः ॥
अथ स्वरान्ता नपुंसकलिङ्गाः । सुपार्श्वः शाश्वतो भाखान् विश्वेषां पङ्कशोषणः । पृथिव्यामुदयाद्भूपप्रतिष्ठाज्जन्मनः शुचिः ॥ १ ॥ अतः स्वमोम् ॥ १४॥५७॥
अकारान्तस्य नपुंसकस्य स्वमोरम् स्यात् । समानादमोतः । कुलम् । हे कुल । अत्रामादेशे सति अदेतः स्वमोर्लुमित्यमो लुक् । तत्सम्बन्धिविज्ञानात् प्रियकुलः पुमान् । अमोऽकारोऽतिजरसं कुलमित्याद्यर्थम् ।
औरी ॥ १|४|५६॥
नपुंसकस्याप्रत्यय है: स्यात् । कुले । परमकुले ।
नपुंसकस्य शिः ॥ १|४|५५॥
नपुंसकस्य जस्ासोः शिः स्यात् ।
स्वराच्छौ ||१|४|६५॥
जस् शसादेशे शौ परे खरान्तान्नपुंसकात्परो नोऽन्तः स्यात् । निदीर्घः ॥ १|४|८५॥
शेषे घुटि परे यो नकारस्तस्मिन् परे पूर्वस्य स्वरस्य दीर्घः स्यात् । कुलानि २। शेषं तृतीयादौ देववत् । एवं धनवनादयः ।
पञ्चतोऽन्यादेरनेकतरस्य दुः ॥ १|४|५८ ॥
नपुंसकानामन्यादीनां सर्वादिगणपठितानां पञ्चानां सम्बन्धिनोः स्वमोः स्थाने व इत्यादेशः स्यादेकतरं विना । अन्यत् । अन्ये । अन्यानि । एवमन्यत्तरत् । इतरत् । कतरत् । कतमत् । यतरत् । यतमत् । ततरत् । ततमत् । एकलमत् । हे अन्यत् । अनेकतरस्येति किम् ? एकतरम् । तत्सम्बन्धिग्रहणात् प्रियान्यं कुलम् । इह तु स्यात् परमान्यत् । अनन्यत् । अन्यतमशब्दस्यान्यतममित्येव । अतिजरशब्दे सेरम्करणे सन्निपातपरिभाषानित्यत्वे जरस् । अतिजरम् । अतिजरसम् ।