________________
४२
वर्षा । हे पुनर्भु । हे अतिलक्ष्मि । हे अम्ब । हे अक्क । हे अन्त । हे अल्ल । हे अनम्य । हे परमाम्ब । हे प्रियाम्ब । दिदिति किम् ? हे वातप्रमीः । हे हुहूः । हे ग्रामणीः । हे खलपूः । नित्यग्रहणादिह न हे श्रीः । हे हीः । हे भूः । हे भ्रूः । कथं सुभ्रु । हे भीरु । स्त्रीपर्य्यायत्वादृङि कृते भविष्यति । द्विखर इति किम् ? हे अम्बाडे । हे अम्बाले । हे अम्बिके ।
सर्वादेर्ड पूर्वाः ॥ १|४|१८ ॥
सर्वादेरायन्तस्य ङितां यै यास यास यामस्ते डस्पूर्वाः स्युः । सर्वस्यै । सर्वस्याः सर्वस्या | सर्वस्याम् । परमसर्वस्यै । इदमः स्त्रियाम् अस्यै इत्यादि । द्वितीयस्यै । द्वितीयायै । नात्र प्रियसर्वायै । गौणत्वात् । कथं दक्षिणपूर्वस्यै इति । दक्षिणा चासौ पूर्वा चेति कर्मधारयात् । दक्षिणस्याः पूर्वस्याश्च दिशोर्यदन्तरालं सा दिक दक्षिणपूर्वा तस्यै दक्षिणपूर्वायै इत्येव । जरा । जरसौ । जरसः । जरसम् । जरसौ । जरसः । जरसा । जरसे । जरसः २ । जरसोः २ । जरसाम् । जरसि । पक्षे व्यञ्जनादौ च पद्मावत् । जरामतिक्रान्ता स्त्री अतिजरा । विभक्तेरापा व्यवघानाश्न जरस् । नासिकाशब्दे शसादौ नसः । नसा । नोभ्याम् । नोभिः । नसे इत्यादि । पक्षे त्रुटि च पद्मावत् । निशाशब्दे निशः । निशा । निशुभ्यामियत्र घुटतृतीय इति जकारे कृते निजभ्याम् । सुपि जकारस्य प्रथमत्वे सस्य शषाविति सुपः सकारस्य शकारे प्रथमादघुटीति शस्य छत्वे निच्छु । जकारस्य परे गवे प्राप्ते असत्वात् चजः कगमिति न गत्वम् । कश्विद् यजसृजेत्यादिना वक्ष्यमाणेन षत्वे षस्य तृतीयत्वेन डत्वे निड्भ्याम् । निङ्गिः । सुपि ङ्गः सः त्सोऽश्व इति तकारे टत्वे शिव्याद्यस्य द्वितीयो वेति टकारतकारयोष्ठकारथकारौ । न पदान्तावर्गादित्यादिना टवर्गत्वमपि न । तेन नित्सु । निट्सु इत्याह । पृतनाशब्दे पृत् शसादौ पृतनाया इति मते पृतः । पृता । पृद्भ्याम् । पक्षे त्रुटि च पद्मायत् । तीर्थपा विश्वपावत् । मतिर्बुटि मुनिवत् । स्त्रीलिङ्गाच्छसो नत्वं नेति मतीः । मत्या । मतिभ्याम् । मतिभिः ।
स्त्रिया ङितां वा दै दास दास दाम ||१|४|२८॥
स्त्रीलिङ्गादिदन्तादुदन्ताच्छब्दात्परेषां तदतत्सम्बन्धिनां स्यादेर्डितां ङे ङसिङस् ङीनां स्थाने क्रमाद् दै दास दास दाम् एते आदेशा वा स्युः । विकल्पसूत्रमिदम् । मत्यै । मतये । मत्याः २ | मतेः २ । मत्याम् । मतौ । कन्या पतिर्यस्य यस्या वा कन्यापत्यै कन्यापतये पुरुषाय स्त्रियै वा । प्रियबुद्ध्यै । मियबुद्धये स्त्रियै नराय वा । एषु समासार्थस्य पुरुषत्वेऽपि पत्यादिशब्दानां स्त्रीत्वमस्ति । केचित् प्रबुद्धये प्रियधेनवे पुरुषायेत्येवाहुर्न दित आदेशाः । कचित्पुरुषविशेपणे अतिशकट्यै प्रियधेन्वै पुरुषायेत्येव स्यादित्याह । तन्मतेऽतिशकव्येऽतिधेनवे त्रियै इत्येव न पुनर्विकल्पः । आमध्ये हे मते, हे बुद्धे । एवं स्मृतिश्रुत्यादयः ।