________________
अनुबन्धफलम् ।
उच्चारणेऽस्त्यवर्णाय आस्तयोरिग्निषेधने । इकारादात्मनेपदमीकाराचोभयं भवेत् ॥ १ ॥ उदितः खरान्नोन्तश्चोस्तादाविटो विकल्पनम् । रुपान्त्ये ङे परे ह्ख ऋकारादविकल्पकः ॥ २ ॥ लुकारादङ्समाघात्येः सिचि वृद्धिनिषेधकः । ऐक्तयोरिनिषेधः स्यादोस्तयोस्तस्य नो भवेत् ॥ ३ ॥ औकार इड्डिकल्पार्थेऽनुखारोऽनिविशेषणे । लुकारश्च विसर्गश्चानुबन्धे भवतो नहि ॥ ४ ॥ कोदादिर्न गुणी प्रोक्तः खे पूर्वस्य मुमागमः । नोभयपदी प्रोक्तो घच चजोः कगौ कृतौ ॥ ५ ॥ आत्मने गुणारोधे ङवो दिवादिगणो भवेत् । श्री वृद्धौ वर्त्तमाने क्तः टः खादिष्ठयुकारकः ॥ ६ ॥ त्रिमगर्थी डकारः स्थाण णचुरादिश्च वृद्धिकृत् । तस्तुदादौ नकारश्चेवापुंसीति विशेषणे ॥ ७ ॥ रुधादौ नागमे पो हि मो दामः संप्रदानके । यस्तनादेरकारः स्यात् पुंवद्भावार्थसूचकः ॥ ८ ॥ स्त्रीलिंगार्थे लकारो हि उन और्विति वो भवेत् । शः त्र्यादिः क्यः शिति प्रोक्तः षः षितोऽङविशेषणे ॥ ९ ॥ पदत्वार्थे सकारो हि नोक्ता अत्र न सन्ति च । धातूनां प्रत्ययानां चानुबन्धः कथितो मया ॥ १० ॥
इत्यनुबन्धफलम् ।
तादेरयतन्यां चाङात्मनेपदमिष्यते । वृदादिपञ्चकेऽन्यो वा स्यसनोरात्मनेपदम् ॥ १ ॥ ज्वलादिणों भवेद्वृद्धिर्यजादेः संप्रसारणं । घटादीनां भवेद्वो णौ परेऽजीघटत् सदा ॥ २ ॥ अद्यतन्यां पुषादित्वादङ्परस्मैपदे भवेत् । स्वादिवाच्च तयोस्तस्य नकारः प्रकटो भवेत् ॥ ३ ॥ वादीनां गदितो हखो ल्वादेस्तत्तयोश्च नो भवेत् । युजादयो विकल्पेन ज्ञेयाश्रुरादिके गणे ॥ ४ ॥ मुचादेर्नागमोरो च कुटादित्वात् सिचि परे । गुणवृद्धेरभावश्च कथितो हेमसूरिणा ॥ ५ ॥