________________
४०
णाम् । कर्तरि । कर्तृषु । हे कर्तः । नसारौ । नेष्टारौ । त्वष्टारौ । क्षत्तारौ । होतारौ । पोतारौ । प्रशास्तारौ । अतिकर्तारौ | तृशब्दस्यार्थवतो ग्रहणेन प्रत्ययग्रहणात् नत्रादीनामव्युत्पन्नानां संज्ञाशब्दानां तृशब्दस्य ग्रहणं न स्यादिति तेषां पृथग ग्रहणम् । व्युत्पत्तिपक्षे तृग्रहणेनैव सिद्धे नप्त्रादिग्रहणं नियमार्थम् । तेन नान्येषामौणादिकानां पितृभ्रात्रादीनाम् । ना । नरौ । नरः । हे नः । नृभ्याम् । नृभिः । त्रे० । नुः २ ।
नुर्वा ॥ १|४|४८ ॥
नृशब्दस्य नामिपरे वा दीर्घः स्यात् । नृणाम् । नृणाम् । नरि । नृषु ।
1
क्रुशस्तुनस्तृच पुंसि ॥ १|४|५७॥
कुशः परो यस्तुन् प्रत्ययस्तस्य शेषे घुटि परे तृजादेशः स्यात् पुंसि । क्रोष्टा । क्रोष्टारौ । क्रोष्टारः । क्रोष्टारम् । क्रोष्टारौ । अतिक्रोष्टा । प्रियक्रोष्टा । असिद्धू बहिरङ्गमन्तरङ्गे इति न ऋन्नित्यदित इति कच् । शसि क्रोष्ट्रनित्येव । शेष इति किम् ? हे कोष्टो |
टादौ खरे वा ॥ १|४|९२ ॥
1
यादौ खरे परे क्रुशः परस्य तुनस्तृजादेशो वा स्यात्पुंसि । क्रोष्ट्रा । क्रोष्टुना । क्रोष्ट्रे । क्रोष्टवे । क्रोष्टुः २ । क्रोष्टोः २ । क्रोष्टार । क्रोष्टौ । आमि क्रोष्ट्नाभित्येव । नित्यत्वात् पूर्व नामादेशे खराभावात् । भिसभ्यां भ्यस्सु उकारान्तवद्रूपाणि । इति ऋदन्ताः । कृ तू एषां धातूनामनुकरणे प्रकृतिवदनुकरणमिति विकल्पेनातिदेशात् ऋतां कितीर इतीरित्यादेशे कीः । किरौ । किरः । तीः । तिरौ । तिरः । गीः । गिरौं । गिरः । इत्यादिगीर्घत् । पक्षे कृः । क्रौ । ऋः । कृम् 1 1 क्रौ । कृन् । का । । इत्यादि । इति ऋदन्ताः । विदुल लाभ इत्यस्यानुकरणे ऋकारोपदिष्टं कार्य्यं लुकारेऽपि विज्ञायते इति सेर्डाः । विदा । विदलौ । विदलः । स्थानिप्रत्यासत्या अङ चेत्यरादेशेऽप्यलिति । ङसिङसोस्तु ऋतो डर । विदुल् । इत्यादि । इति लदन्ताः । अतिहेः । अतिहयौ । अतिहयः । अतियम् । हे अति । अतः स्यमोर्लुक् । हे अतिहयौ ।
आ रायोव्यञ्जने ॥ २॥११५॥
शब्दस्य तदतत्सम्बन्धिनि व्यञ्जनादौ स्यादौ परे आकारः स्यात् । राः । रायौ । रायः । हे राः । राभ्याम् । राभिः । राभ्यः । रासु । एवं सुराः ।
ओत औघुटि ॥ १|४|७४ ॥
ओकारस्य ओत एव विहिते घुटि परे औः स्यात् । गौः । गावौ । गावः । विहितविशेषणाचित्रगवः । लुनातेर्विचि गुणे लौः । लाचौ । लावः । हे गौः । हे अगौः ।