________________
३९
२ । अतिचमूनाम् । अतिचम्वाम् । सुलूः । सुल्बौ । सुल्वः । खलपूः । खलवौ । खलप्वः । एषु स्याद्युत्पत्तेः प्रागेव विबन्तेन समासः ।
हन्पुनर्वर्षाकारैर्भुवः ॥२१॥५९॥
एभिः सह या विष्वृत्तिस्तस्या भुवो धातोरुवर्णस्य स्यादौ खरादौ प्रत्यये परे वः स्यात् । दृन् हिंसन् भवतीति हन्भूः । विबन्तः । सविषः कीटः । हन्भ्वौ । दृन्भ्वः । खलपूवत् । औणादिकहन्भूशब्दे तु दृम्भ्वौ । हवः । इत्यादिवत् । पुनर्भूर्द्विरूढास्त्री । पुनभ्र्ध्वो । पुनः। वर्षाभूरोषधिविशेषो दर्दुरश्च । वर्षाव | वर्षाभ्वः । कारे भवति कारभूः । कारभ्वौ । कारभ्वः । करशब्देऽपि करभ्वौ । करभ्वः । काराशब्देऽपि । काराभ्वौ । काराभ्वः । दृन्नादिभिरेव भुव इति नियमार्थ सूत्रम् । तेनैतैरेव भुवो वो नान्यैरिति सिद्धम् । स्वयम्भुवौ । खयम्भुवः । उल्लूः । उल्ल्वौ । उन्नीवत् । कटप्रूः । संयोगपूर्वकत्वात् स्वयम्भूवत् । दृशोर्भवति दृग्भूः । स्वयम्भूवत् । काराभूरपि स्वयम्भूवदिति कश्चित् ।
स्यादौ वः ॥ २११५७॥
अनेकखरस्य धातोरुवर्णस्य स्यादौ खरे प्रत्यये वकारः स्यात् । वसुमिच्छतीति क्यनि किपि वसूः । बखौ । वखः । स्यादाविति किम् ? लुलुवतुः । इत्थूदन्ताः । पितृशब्दे सेर्डा । पिता ।
अ
च ॥ १|४|३९॥
ऋतः स्थाने ङौ त्रुटि च परेऽरित्यादेशः । पितरौ । पितरः । पितरम् । पितरौ । पितॄन् । पित्रा । पितृभ्याम् । पितृभिः । पित्रे ।
ऋतो डुर् ||१|४|३८ ॥
ऋतः परयोङसिङ्सोर्डर स्यात् । पितुः २ । पित्रोः २ । पितॄणाम् । पितरि । पितृषु । ह्रस्वस्य गुणः । हे पितः । हे पितरौ । हे पितरः ।
मातुर्मातः पुत्रेऽहें सिनाऽमन्ये ॥ १|४ |४० ॥
मातृशब्दस्य आमन्त्रये पुत्रे प्रशंसायां गम्यमानायां सिना सह मात इत्यकारान्त आदेशः स्यात् । हे गार्गिमात ।
तृ स्वसृनप्तृनेष्टृत्वष्टृक्षत्ताहोतृपोतृप्रशास्त्रो घुट्यार् ||१|४|३८॥
तृइति तृचतुनोर्ग्रहणम् । तदन्तस्य स्वस्रादिशब्दानां च ऋतः स्थाने तदतसम्बन्धिनि त्रुटि परे आर स्यात् । कर्तृशब्दः । कर्तारौ कटस्य । कर्तारः । कर्तारम् । कर्तारौ । कर्तृन् । कर्त्रा । कर्तृभ्याम् । कर्तृभिः । कर्त्रे । कर्तुः २ । कर्त्रीः २ । कर्तृ