SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ४३६ प्रश्नाख्याने वेञ् ॥५॥३॥११९॥ प्रश्ने आख्याने गम्ये स्त्रियां भावाकोरिञ् वा स्यात् । कां त्वं कारिमकार्षीः। कां कारिका क्रियां कां कृत्यां कां कृति वा वचनात् । यथाप्राप्तम् । पर्यायार्होत्पत्तौ च णकः॥५।३।१२०॥ एडवर्थेषु प्रश्ने आख्याने गम्ये धातोर्णकः स्यात् । स्त्रियां भावाको तयादेरपवादः । पर्यायः क्रमः। परिपाटीति यावत् । भवत आसिका भवत आसितुं क्रम इत्यर्थः । अर्हण महें योग्यता । अहंति भवानिक्षुभक्षिकाम् । ऋणं यत्परस्मै धार्यते । इक्षुभक्षिकां मे धारयसि । उत्पतिजन्म । इक्षुभक्षिका मे उदपादि । प्रश्ने कां त्वं कारिकामकार्षीः । आख्याने सर्वी कारिकामकार्ष मिति भावे धावर्थनिर्देशे धातोर्णकः स्यात् । आसिका । शायिका । जीविका। कीबे क्तः ॥५॥३३१२३॥ नपुंसके भावे क्तः स्यात् । तव हसितम्। - अनट् ॥५।३।१२४॥ क्लीवे भावेऽर्थे धातोरनट् स्यात् । गमनम् । भोजनम् । हसनम् । करणाधारे ॥५॥३॥१२९॥ अनयोरर्थयोर्धातोरनट् स्यात् । घमाद्यपवादः । लेखनी । कर्त्तनी । गोदो. हनी । पचनी स्थाली। रम्यादिभ्यः कर्तरि ॥५॥३॥१२६॥ अनट् । रमणी । कमनी। नन्दनी। पुन्नानि घः ॥५।३।१३०॥ करणाधारयोः धातोः स्यात् । पुंसि दन्तच्छदः। एकोपसर्गस्य च घे ॥४॥२॥३४॥ इतिहस्वः । आकरः। न्यायावायाध्यायोद्यावसंहारावहाराधारदार जारम् ॥५॥३॥१३४॥ एते घन्ता निपाता।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy