SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४३३ कृगः श च वा ॥ ५|३|१००॥ भावाकन्त्रः क्रियापक्षे क्यप् । कृत्या । मृगयेच्छायाञ्चातृष्णाकृपाभाश्रद्धान्तर्द्धा || ५|३|१०१ ॥ एते निपाताः । परेः सचरेर्यः || ५|३|१०२ ॥ आभ्यां परिपूर्वाभ्यां यः स्यात् । परिसर्या । परिचर्या । वाऽटाट्यात् ||५|३|१०३॥ अटव्या । पक्षे अप्रत्ययः । अटाटा । जागुरव || ५|३|१०४॥ जागर्या । जागरा । शंसि प्रत्ययात् ॥ ५३॥१०५॥ शसेः प्रत्ययान्तेभ्यश्च भावाकत्रोः स्त्रियामः स्यात् । प्रशंसा । चिकीर्षा । केटो गुरोर्व्यञ्जनात् ॥५३॥१०६॥ क्पइट्सहितस्तस्माद्गुरुमतो व्यञ्जनान्ताद्भावाकत्रः स्त्रियामः स्यात् । ईहा । ऊहा । ईक्षा । पितोऽङ् ||५|३|१०७॥ षितो धातोर्भावाकर्त्रीरङ् स्यात् । पचा । भिदादयः ||५||३|१०८॥ एते भिदादयोऽङन्ता निपाताः । भिदा । विदा | विचारणा । छिदा द्वैधीकरणम् । मृजा शरीरसंस्कारः । क्षिपा प्रेरणम् । दया अनुकम्पा । रुजा रोगः । चुरा । पृच्छा । नञोऽनिः शापे || ५|३|११७॥ नञ्पूर्वाद्धातोः शापे गम्ये भावाकत्रः स्त्रियामनिः स्यात् । अजन निस्ते वृषल ! भूयात् । अकरणिः । ग्लाहाज्यः ॥ ५५।३।११८॥ एभ्यः स्त्रियां भावाकत्ररनिः स्यात् । ग्लानिः । हानिः । ज्यानिः । चं. प्र. ५५
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy