________________
४३२
चिनियाचिनोते या रस्तेये
हस्तप्राप्ये चेरस्तेये ॥५॥३३७८॥ तद्विषयाचिनोतेर्घ स्यात् । अचौर्यार्थे । पुष्पप्रचायः । अपचायः । चितिदेहावासोपसमाधानेकश्वादेः ॥५॥३॥७९॥
एध्वर्थेषु चिनोतेर्घञ् तत्संनियोगे चादेः कादेशः। आकायं यज्ञेऽग्निं चि. न्धीत । कायो देहः । आवासे निकायः। उपसमाधाने गोमयनिकायः।
संघेऽनूचे ॥५॥३४८०॥ अनू संघे चिनोतेर्धम् । नास्ति कुतोऽप्यूर्ध्वमुपरि किंचिद्यस्मिन्सोऽनूर्वः घत्रि । चादेः कः । वैयाकरणनिकायः।
माने ॥५॥३॥८॥ माने गम्ये धातोस्तथैव घञ् । मानमियत्तासंख्यापरिमाणम् । एको निवासः। एकस्तण्डुलावक्षायः । एकस्तण्डुलनिश्चायः । एकः कारः। द्वौ कारौ । त्रयः कारा: निष्पावः समित्संग्राहः।
स्थादिभ्यः कः ॥५॥३॥८२॥ भावाकोंः । आखूनामुत्थानमाखूत्थो वर्तते । प्रतिष्ठितमस्मिन्प्रस्थः । व्यवत्तिष्ठन्तेऽनया व्यवस्था । प्रश्नात्यस्मिन्प्रश्नः । प्रपिबन्त्यस्यां प्रपा । विध्यत्यनेन विधः। विहन्यतेऽनेनास्मिन्वा विघ्नः । आदीयते इत्यादिः। नितरां धीयते निधिः।
विधिः।
व्याप्यादाधारे ॥५३॥८८॥ व्याप्यपूर्वादासंज्ञादाधारे किः स्यात् । जलधिः।
अन्तद्धिः ॥५॥३२८९॥
स्त्रियां क्तिः ॥५॥३३९१॥ भावाकोंः । स्त्रियां क्तिः स्यात् । कृतिः । ल्वादे ।४।२६८। रिति नत्वेलूनिः यपि चे।४।४।१६। ति जग्धादेशे जग्धिः ।।
सातिहेतियूतिजतिज्ञप्तिकीर्तिः ॥५।३।९४॥ एते क्यन्ता निपाताः। सुनोतेः सिनोतेः स्यतेर्वा आस्वं निपातनात् । सातिः! हिनोते गुंणे हन्तेर्वान्त्यस्वरादेरेवे हेतिः। यौते'तिः । जयतेर्जूतिः । उभयोर्दीर्घः।
आस्यटिव्रज्यजः क्यप् ॥५॥३१९७॥ एभ्यो भावे स्त्रियां क्यप् स्यात् । आस्था । अट्या । व्रज्या । इज्या।