SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ४३१ प्रात्स्रुदुस्तोः ॥५|३|६७॥ घञ् । प्रस्नावः । प्रद्रावः । प्रस्तावः । अयज्ञे त्रः || ५|३|६८ ॥ पूर्वास्तु इत्यस्मात् घञ् । अयज्ञे प्रस्तारः । यज्ञे तु प्रस्तरः । बर्हिष्प्रस्तरः । छन्दो नानि ॥ ५३॥७०॥ छन्दः पयो वर्णविन्यासः । विपूर्वात्स्तृणातेः छन्दोविषये घञ् स्यात् । विष्टारः । आस्तारः । पंक्तिः । थुश्रोः ॥५३॥७१॥ श्रोतेः शृणोतेश्च विपूर्वाद् घञ् । विक्षावः । विनावः । न्युदो ग्रः ||५|३|७२ ॥ नि० १० उत्० परात् गिरतेर्गुणातेर्वा घञ् भावाकर्त्रीः । निगारः । उद्गारः । किरो धान्ये ॥ ५३॥७३॥ न्युत्पूर्वात्किरतेर्धान्यविषये धात्वर्थे वर्तमानाद् घञ् स्यात् । धान्यस्य निकारः उस्कारो वा राशिरित्यर्थः । नेर्बुः ||५|३|७४ ॥ निपूर्वाद्वृत् घृणातेर्वृणोतेर्वा धान्यविशेषे वाच्ये घञ् । नीवारः । घञ्युपसर्गस्य बहुलम् ||३२|८६ ॥ चत्रन्त उत्तरपदे परे उपसर्गस्य बहुलं दीर्घः स्यात् । नीशारः । प्रतीहारः । प्रावारः । कचिन्न विहारः । प्रभावः । प्रतापः । कचिद्विभाषा । परिणामः । परीणामः । प्रतिबोधः । प्रतीबोधः । इणोऽभ्रे ||५|३|७५॥ स्थितेरचलनमभ्रेषः । निपूर्वादिणोऽभ्रेषे घञ् । भावाकर्त्रीः । शास्त्रलोकप्रसिद्ध्यादिना नियतमयनं न्यायः । परेः क्रमे ॥ ५ ॥३॥७६॥ क्रमः परिपाटी तदर्थे इणो घञ् । तवपर्यायो भोक्तुममे पर्ययः । व्युपाच्छीङः ॥५३॥७७॥ घञ् । तथैव तव राजविशायः । मम उपशायः । क्रमप्राप्तं कार्यमित्यर्थः । अक्रमे तु विशयः । उपशयः ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy