SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ४३० न्यवाच्छापे || ५|३|५६ ॥ शापे आक्रोशे गम्ये न्यवाभ्यां ग्रहेर्घञ् । निर्ग्राहो ते दृषल भूयात् । अबग्राहस्ते मूढ भूयात् । प्रालिप्सायाम् ||५|३१५७॥ प्रहेर्घञ् भावाकर्त्रीः । पात्रप्रग्राहेण चरति भिक्षुः पिण्डार्थी । समो मुष्टौ || ५|३|५८ ॥ ग्रहेर्घञ् स्यात् । मुष्टिरंगुलिसन्निवेशो न परिमाणम् । संग्राहो मलमुष्टेः । दामित्यर्थः । युदुद्रोः || ५|३|५९॥ संपूर्वेभ्य एभ्यो घञ् स्यात् । संयावः । संदावः । संद्रायः । नियश्चानुपसर्गाद्वा ॥ ५३॥६०॥ नयतेर्युदुद्रोश्च भावाकर्घञ् वा स्यात् । नयः । नायः । यवः । यावः । दुवः । दायः । द्रवः । द्वावः । वोदः || ५|३|६१॥ उत्पूर्वान्नयतेर्वा घञ् । उन्नायः । उन्नयः । अवात् ॥५३॥६२॥ अवपूर्वान्नयतेर्नित्यं घञ् स्यात् । अवनायः । परे र्द्यते ॥५|३|६३॥ परिणायेन शारीन् हन्ति । भुवोऽवज्ञाने वा ॥ ५|३|६४॥ अवज्ञानमसत्कारपूर्वोऽधिक्षेपः । परिभवः । परिभावः । यज्ञे ग्रहः ||५||३|६५॥ पूर्वपरिग्राहः । अयज्ञे परिग्रहः । संस्तोः ||५|३|६६॥ संपूर्वात्स्तौ तेर्घञ् भावकर्त्रीः । संस्तुवन्त्यत्र संस्तावः । देश उच्यते । अन्यत्र संस्तवः ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy