________________
३७
लोनपत्येषु ||६|| २३॥
लोमशब्दात्मागू जितीयेऽर्थेऽपत्यलक्षणे अःप्रत्ययः स्यात् । अपत्येष्विति बहुवचनाद्बहुत्वे अः । अन्यत्रे अन्तत्वादिकारन्तवद्रूपाणि । उड्डुलोमाः । उड्डुलोमान् । उडुलोमैः । एवं शरलोमैः । एवमन्येपीदन्ता रविकविप्रमुखा मुनिवत्साध्याः । उकारान्ता अपि साधुभानुविष्णुप्रभृतयो मुनिशब्दसाधनसूत्रैरेव साहचर्या - त्साध्याः । भानुः । भानू । भानवः । भानुम् । भानू । भानून् । भानुना । भानुभ्याम् । भानुभिः । भानवे । भानुभ्याम् । भानुभ्यः । भानोः २ । भान्वोः २ । भानूनाम् । भानौ । भानुषु । हे भानो । हे भानू । हे भानवः । ईकारान्तो वात प्रमिमीते इत्युणादौ वातप्रमीः । वातप्रम्यौ । वातप्रस्यः । हे वातप्रमीः । समानादमोऽतः । वातप्रमीम् । वातप्रम्यौ । वातप्रमीन् । वातप्रम्या । वातप्रम्ये । वातप्रम्यः २ । वातप्रम्योः २ । वातप्रम्याम् । दीर्घत्वान्न नाम् । ङौ समानानामिति दीर्घः । वातप्रमी । वातप्रमीषु । एवं पपी ययी प्रमुखाः । पपीः सूर्य्यः । ययीर्मार्गः । किन्ते तु अभि शसि ङौ च विशेषः । वातप्रम्यम् । वातप्रस्यः । वातप्रस्थि । किन्वृत्तेरसुधियस्तौ इति वक्ष्यमाणयत्वम् । बह्वयः श्रेयस्यो यस्य स बहुश्रेयसी नरः । दीर्घङयाविति वक्ष्यमाणः सेर्लुक् । बहुश्रेयस्यौ नरौ । बहुश्रेयस्यो नराः । आमन्त्रये नित्यदिद्विरिति ह्रस्वत्वे हे बहुश्रेयसि नर । शसि बहुश्रेयसीन् । बहुश्रेयस्या नरेण । ङित्सु स्त्रीदूत इति वक्ष्यमाणाद्देदासादयो नित्यम् । बहुश्रेयस्यै । बहुश्रेयस्याः २ | बहुश्रेयसीनां नराणाम् । बहुश्रेयस्यां नरे । शेषमौणादिकवातममीवत् । कुमारीवाचरतीति किपि । कुमारी ब्राह्मणः ।
1
astraरस्य ॥२/१५६॥
अनेकस्वरस्य धातोरिवर्णस्य प्रत्ययखरे परे यकारः स्यात् । इति यत्वे कुमाय्यौ । कुमार्य्यः । कुमाय्यै ब्राह्मणाय । खरकुटीव खरकुटी तस्मै खरकुट्यै ब्राह्मणायेत्यादि ज्ञेयम् । अतिलक्ष्मीशब्देऽङयन्तत्वान्न सेर्लुक् । अतिलक्ष्मीः । शेषं बहुश्रेयसीवत् ।
धातोरिवर्णोवर्णस्येयुव स्वरे प्रत्यये ॥ २११५०॥
धातुसम्बन्धिन इवर्णस्योवर्णस्य च खरादौ प्रत्यये परे क्रमादिय् उव् इत्यादेशौ स्याताम् । नीः । नियौ । नियः ।
निय आम् ||१|४|५१ ॥
नियः परस्य ङे: सप्तम्येकवचनस्याम् स्यात् । नियाम् । संयोगात् || २|१|५२ ॥
धातोरिवर्णोवर्णस्य धातोः संयोगात्परस्य प्रत्ययखरे इयुवौ स्तः । खोरप