________________
३६
केवलसखिपतेरौः ॥ १|४|२६ ॥
केवलसखिपतिभ्यामिदन्ताभ्यां परो ङिरौः स्यात् । सख्यौ । एवं पत्यौ । प्रियसखौ । सुखौ | अतिसखौ । बहुसखौ । नरपतावित्यादौ डिडौरव केवलत्वाभावात् । तेन सुसखिना सुसखये इत्यादि । य इति किम् ? यत्र यत्वं तत्रैवोर् । तेनातिसखेः अतिपत्तेः इत्यत्र न । पतिः । पती । पतयः । पतिम् । पती । पतीन् । सखिवदग्रे । पत्या । पत्ये । पत्युः । पत्योः २ । पतिषु । हे पते । सखीमतिक्रान्तोऽतिसखिः । लिङ्गविशिष्टपरिभाषाया अनित्यत्वात् । राजन् सखेरिति सूत्रेण नाट् समासान्तः । गोश्वान्ते ह्रस्व इत्यादिना हखत्वे लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणान्मुनिवत् । कति शब्दो बहुवचनान्तः ।
इत्यतु संख्यावत् ॥ १|१|३८ ॥
इतिप्रत्ययान्तमतुप्रत्ययान्तं नाम संख्यावत्स्यात् । संख्या एकट्ट्यादिका । तत्कार्य भजतीत्यर्थः ।
डतिष्णः संख्याया लुप् ॥ १|४|५४ ॥
इतिप्रत्ययान्तस्य षकारनकारान्तायाः संख्यायाश्च सम्बन्धिनोर्जसासोलुप् स्यात् । कति । कति । कतिभिः । कतिभ्यः । प्रियकतिर्मुनिवत् । लुगित्येव सिद्धौ लुप् स्थानिवद्भावनिषेधार्थः ।
I
लुप्यय्वृल्लेत् ॥ १|४|११२ ॥
परस्य प्रत्ययस्य लुपि सत्यां लुग्भूतपरनिमित्तकं पूर्वस्य कार्य्यं न स्यात् । वृत्करणमेत्करणं लकरणं च वर्जयित्वा । 'नन्ता संख्या डतिर्युष्मदस्मच्च स्युरलिङ्गकाः ।' इतिवचनात्रिषु सरूपाः ।
त्रयः ||१|४|३४ ॥
आम: सम्बन्धिनस्त्रिशब्दस्य त्रय इत्यादेशः स्यात् । त्रयाणाम् । परमत्रयाणाम् । गौणत्वे न । अतित्रीणाम् । प्रियत्रीणाम् । केचित्तु गौणत्वेऽपि प्रियन्त्रयाणामिति मन्यन्ते । त्रिशब्दो बहुवचनान्त एव । द्विशब्दो द्विवचनान्तः ।
आद्वेरः || २|१|४१॥
द्विशब्दमभिव्याप्य त्यदादीनामन्तस्य तत्सम्बन्धिनि स्यादौ तसादौ तद्धिते च प्रत्यये परेsकारः स्यात् । द्वौ २ । द्वाभ्याम् ३ । द्वयोः २ । संज्ञायां गौणत्वे च नाकारः । द्विर्नाम कश्चित् । द्विः । द्वी । द्वयः । अतिद्विः । मुनिवत् । प्राधान्ये परमौ । उडुलोम्न ऋषेरपत्यमौडलोमिः । बाह्रादिभ्यो गोत्रे इतीञ् । औडलोमी । बहुवे -