________________
३५
डित्यन्त्यस्वरादेः ॥ २|१|११४॥
स्वराणां सन्निविष्टानां मध्ये योऽन्त्यः खरस्तदादेः शब्दस्वरूपस्य डिति परे लुक् स्यात् । मुनौ । मुनिषु ।
ह्रस्वस्य गुणः ॥ १|४|४१॥
आमयेऽर्थे वर्तमानस्य सिना सह श्रुतत्वाद्धस्वस्यैव गुणः स्यात् । आसन्नः । हे मुने । हे सुनी । हे मुनयः । अतिक्रान्तः स्त्रियमतिस्त्रिः पुरुषः । स्त्रिया इति वक्ष्यमाणेनेादेशे अतिस्त्रियौ । जसि अतिस्त्रयः । अस्त्रेरिति ज्ञापकात्परेणापि इयादेशेत्कार्य्यं न बाध्यते । वाम् शसीति अतिस्त्रिम् अतिस्त्रियम् नरं पश्य । अतिस्त्रियौ । अतिस्त्रियः । अतिस्त्रीन् नरान् पश्य । अतिस्त्रिणा । अतिस्त्रिभ्याम् । अतिस्त्रिभिः । अतिस्त्रये । अतिस्त्रेः २ । अतिस्त्रियाः २ । अतिस्त्रीणाम् । अतिस्त्री । अतिस्त्रिषु । हे अतिस्त्रे । 'ओस्योकारे च नित्यं स्यादम्शसोस्तु विभाषया । इयादेशोऽचि नान्यत्र स्त्रियाः पुंस्युपसर्जने ॥१॥ इकारान्तः सखिशब्दः ।
ऋदुशनस्पुरुदंसोऽनेहसश्च सेर्डाः || १ |४| ८४ ॥
सखिशब्दादिकारान्तादृदन्तादिभ्यश्च परस्य सेर्डा इत्यादेशः स्यात् । अन्त्यखरादिलोपे सखा । किंसखा । प्रियसखा ।
सख्युरितोऽशावैत् ॥ १|४|८३ ॥
इदन्तस्य सखिशब्दस्य तत्सम्बन्धिन्यन्यत्सम्बन्धिनि वा शिवर्जिते शेषे त्रुटि परे ऐकारोन्तादेशः स्यात् । सखायौ । सखायः । सखायम् । सखायौ । सखीन् । सुखायौ । प्रियसखायौ । किंसखायौ । परमसखायौ इत्यादावपि । तृतीयैकवचने-न नाङि देत् ॥ १|४२१॥
केवलसखिपतेः : परस्य दावचनस्य नादेशो ङिति परे एकारश्वोक्तः स न स्यात् । इवर्णादेरिति यत्वे सख्या । सखिभ्याम् । सखिभिः । सख्ये ।
खितिखीतीय उर् ॥ १|४|३६ ॥
खितिखीतीसम्बन्धिन इवर्णस्थानीययकारात्परयोर्डसिङसोः स्थाने उर् इत्यादेशः स्यात् । सख्युः । अत्र विकथनात् सखिशब्दस्तिकथनात्पतिशब्दः । खीती दीर्घकथनात्सखायमिच्छतीति क्यनि किपि यलोपे सखीशब्द ईकारान्तः । पतिमिच्छतीति कानि विपि यलोपे पतीरीकारान्तो ग्राह्यः । तस्यापि ङसिङसोः सख्युः पत्युरित्येव । तंत्र योऽनेकखरस्येति यकारः । सख्योः । सखि ङि इत्यत्र