________________
३४
संख्यासायवे रहस्यान् ङौ ॥ १|४|५० ॥
संख्यावाचिशब्देभ्यः सायशब्दाद्विशब्दाच्च परस्याहशब्दस्य ङौ परेऽहन्नित्यादेशो वा स्यात् । द्वयोरहोर्भवः द्व्यहः । अस्य सप्तम्येकवचने व्यहनि । ईङौ वेति अकारलुग्विकल्पात् द्वयहि । पक्षे शेषं च देववत् । एवं व्यह्नि । त्र्यहनि । त्र्यहे इत्यपि । सायाहि | सायाहनि । सायाह्ने । व्यहि । व्यहनि । व्यह्ने । इत्यदन्ताः । विश्वपाः । ऐदौत्सन्ध्यक्षरैः । विश्वपौ । समानानामिति दीर्घः । विश्वषाः । विश्वपाम् । विश्वपौ । शसि ।
लुगातोऽनापः ॥ २|१|१०० ॥
आव्वर्जितस्याकारस्य ङी स्वाद्यघुवरे परे लुक् स्यात् । विश्वपः । विश्वपा । विश्वपे । विश्वपाभ्याम् । इत्यादि । एवं हाहाशब्दः । तस्यापि शसि हाहः । हाहा । हाहे । हाहः २॥ हाहोः २| हाहाम् | हाहि । हाहासु । हे हाहाः । इत्यादन्ताः । मुनिः ।
इदुतोः खेरीदूत् ॥ १|४|२१ ॥
स्त्रिशब्दवर्जितस्येदन्तस्योदन्तस्य चौता सह यथासंख्यमीदृतावित्यादेशौ स्याताम् । मुनी ।
जस्येदोत् ॥ १|४|२२॥
इदन्तस्योदन्तस्य च जसि परे एत् ओत् इत्यादेशौ स्तः । मुनयः । मुनिम् । मुनी । मुनीन् ।
इदुदन्तात्परस्य ३ । मुनिभिः ।
टः पुंसि ना || १ | ४|२४ ॥
स्तृतीयैकवचनस्य ना इत्यादेशः स्यात् । मुनिना । मुनिभ्याम्
ङित्यदिति ||१|४|२३ ॥
अदितिङिति स्यादौ परे इदन्तस्योदन्तस्य चैदोतावादेशौ स्तः । मुनये । मुने अस् इति स्थिते
एदोद्भयां ङसिङसोरः ॥ १|४|३५ ॥
एदोद्भ्यां परयोसिङसोः स्थाने रेफः स्यात् । अकार उच्चारणार्थः । मुनेः २ ।
मुन्योः २ ।
ङिडौं ||१|४|२५॥
इदुदन्तास्परो डिडौं स्यात् ।