SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ 3 . व्याकरणान्तरं द्वयमीषन्तीत्यर्थान्तरेण । परमनेमे । परमनेमाः । अर्धकाः इत्येकमेव । तीयं ङित्काय वा ॥१४॥१४॥ तीयप्रत्ययान्तं शब्दरूपं ङितां डेङसिङसङीनां कार्ये कर्तव्ये वा सर्वादिः स्यात् । द्वितीयस्मै । द्वितीयाय । तृतीयस्मै । तृतीयाय । एवं ङस्यादौ ङिति सर्ववत् । पक्षे देववत् । स्त्रीलिङ्गेऽपि द्वितीयस्यै । द्वितीयायै । इत्यादि । अर्थवद्हणे नानर्थकस्येति पटुजातीयाय । द्वितीयकाय । नानाऽक् । किन्तु कप्रत्यय एव । डिस्कार्य विना सर्वादित्वनिषेधात् । जराया जरस्वा ॥२॥१॥३॥ जराशब्दस्य खसम्बन्धिनि अन्यसम्बन्धिनि वा खरादौ स्यादौवा जरसादेशः स्यात् । अनेकवर्णत्वात्सर्वादेशे प्राप्त निर्दिश्यमानस्यादेशा इति । एकदेशविकृ. तमनन्यवत् । निर्जरसौ । निर्जरसः। निर्जरसम् । इनादीन् बाधित्वा परसूत्राज्जरस । निर्जरसा । निर्जरसैः। एसादेशेनैव सिद्धौ ऐस्करणसाफल्यात् । निर्जरसे । निजेरसः २। निजैरसोः २। निर्जरसाम् । निर्जरसि । अत्र शेषं पक्षे च देववत् । दन्तपादनासिकाहृदयासृग्यूषोदकदोर्यकृच्छकृतोदत्पन्नसहृदसन्यूषन्नुदन्दोषन्यकञ्छकन्वा ॥२॥१॥१०१॥ दन्तादीनां यथासंख्यं शसादौ दत् पद् इत्यादय आदेशा वा स्युः । दन्तः। दन्तौ । दन्ताः। दन्तम् । दन्तौ । दन्तान् । दतः । दता । दन्तेन । दते । दन्ताय । दतः । दन्तात् । दतः । दन्तस्य । दतोः । दन्तयोः । दताम् । दन्तानाम् । दति । दन्ते । व्यञ्जनादायपि । दद्भ्याम् । दन्ताभ्याम् । दद्भिः। दन्तैः । इत्यादि ज्ञेयम् । पादः । पादौ । पादाः। पादम् । पादौ । पदः।पादान् । पदा । पादेन । पद्भ्याम् । पादाभ्याम् इत्यादि। मासनिशासनस्य शसादौ लुग्वा ॥२॥१॥१०॥ ____ एषां शसादौ स्यादौ परे लुगन्तादेशो वा स्यात् । मासःमासा।मासूभ्यामिति स्थिते सोरुः। अवर्णभोभगोऽघोरिति लुकि माभ्याम् । माभिः।मास्सु । केचित्तु माझ्याम् । मात्सु इत्याहुः । धुटस्तृतीय इति सकारस्य दकारकरणात् । पक्षे देववत् । यूषशब्दे यूपन्नादेशेऽनोऽस्येति वक्ष्यमाणेनाकारलोपे यूष्णः । यूषभ्याम् । यूभिः । सप्तम्येकवचने ईडी वेति वक्ष्यमाणेनाऽकारलोपविकल्पेन यूषिण, यूषणि । पक्षे स्यमौजस्सु च देववत् ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy