________________
३२
लादिपु इत्यर्थः । मध्यार्थोऽन्तरशब्दो देववत् । एवं त्यदादौ सर्वादित्वे समायादय आहेर इत्यत्वे कृते ज्ञेयाः । द्वियुष्मद्भवत्वस्मदः स्मायादयो न सम्भवन्ति इति । सर्वविभक्त्यादिप्रयोजनम् । प्रियसर्वाय । अतिसर्वाय । द्व्यन्यायेत्यादी देववत् । गौणभावात् । स्वकल्पितृक इत्यादावन्तरङ्गत्वात्पूर्वमेवावयवेऽकू । एवं मकल्पि तृकः । भवत्वित्यस्योकारो ङयर्थः । भवती । गणपाठोऽप्यक्प्रत्ययाद्यर्थः । एकशब्दो नित्यमेकवचनान्तः । संख्यार्थ इत्येके । मतान्तरेऽन्यार्थोऽयमेकशब्दः । कस्यापि संज्ञायां सर्वादिर्न । सर्वो नाम कश्चित्तस्मै सर्वाय । इति सर्वादिविवेकः ।
1
नवभ्यः पूर्वभ्य इस्मात्स्मिन्वा || २|४|१६॥
पूर्वादिभ्यो नवभ्यो यथास्थानं ये इस्मात्स्मिन्नादेशा उक्तास्ते वा स्युः । पूर्वे । पूर्वाः । पूर्वस्मात् । पूर्वात् । पूर्वस्मिन् । पूर्वेय । एवं परे । पराः । खेखाः । आत्मीया आत्मानो वा । अन्तरे अन्तरा वा शाटकाः । परिधानीया इत्यर्थः ।
तृतीयान्तात् पूर्वावरं योगे ॥ १|४|१३ ॥
पूर्व अवर इत्येतौ सर्वादी तृतीयान्तात्परौ योगे सम्बन्धे सति सर्वादी न स्तः । मासेन पूर्वाय मासपूर्वाय । समासार्थवाक्येऽपि न सर्वादित्वम् । मासेन पूर्वाय ।
न सर्वादिः ॥ १|४|१२॥
द्वन्द्वे समासेन सर्वादित्वम् । दक्षिणोत्तरपूर्वाणाम् । कतरकतमकाः । अत्राऽसर्वादित्वात्कप्रत्यय एव । तेन द्वन्द्वे वेति जसि न विकल्पः । खार्थिकप्रत्ययान्तानां निषेधाद्वा ।
द्वन्द्वे वा ॥ १|४|११ ॥
द्वन्द्वे समासेऽकारान्तस्य सर्वादेः सम्बन्धिनो जस इर्वा स्यात् । कतरकतमे । कतर कतमाः ।
नेमार्धप्रथमचरमतयाल्पकतिपयस्य वा ॥
मादीनि नामानि । तयायौ प्रत्ययौ । तेषामकारान्तानां जस इर्वा स्यात् । नेमे । नेमाः । शेषं सर्ववत् । अर्द्ध । अर्द्धाः । एवं प्रथमचरमयोरपि । द्वितये । द्वितयाः । त्रितये । त्रितयाः । द्वये । द्वयाः । त्रये । त्रयाः । अत्र तथि रक्षणे अयि गतौ अनयोरचि अकारान्तशब्दावपि । परं व्याख्यानतो विशेषप्रतिपत्तिनहि सन्देहादलक्षणमिति न्यायात्तद्धितस्यैव ग्रहः । द्वयेषामित्यत्र प्रयोगात् ।
१ अत्र - शेषं देववत् इति पाठः