________________
३१
रेफषकारऋवणेभ्यः परस्यानन्तस्य नकारस्य रवणैरेष एकपदे स्थितस्य णकारः स्यात् न चेन्निमित्तनिमित्तिनोरन्तरे लकारश्चटतवगों: शसी च भवतः। सर्वेण । सर्वाभ्याम् । सवैः।
सर्वादेः स्मैस्मातौ ॥१४॥७॥ ___ सर्वादेरकारान्तस्य उङस्योः स्मैस्मादित्यादेशौ स्तः । सर्वस्मै । सर्वाभ्याम् । सर्वेभ्यः । सर्वस्मात् । सर्वाभ्याम् । सर्वेभ्यः । सर्वस्य । सर्वयोः।
अवर्णस्यामः साम् ॥११४१५॥ अवर्णान्तस्य सर्वादेः षष्ठीबहुवचनस्यामः सामित्यादेशः स्यात् । सर्वेषाम् । सन्निपातन्यायानित्यत्वादेत्वम् ।
ः स्मिन् ॥१॥४॥८॥ सर्वादेरकारान्तस्य सप्तम्या ङीत्येतस्य स्मिन्नित्यादेशः स्यात् । सर्वस्मिन् । सर्वयोः । सर्वेषु । हे सर्व । हे सौं। हे सर्वे । एवं परमसर्वः । असर्वः।किंसर्वः। विश्वशब्दोऽप्येवं सार्थः। जगद्वाची तुन सर्वादिः । उभशब्दो द्वित्वविशिष्टस्य वाचको द्विशब्दवन्नित्यं द्विवचनान्तः । गणपाठस्तु हेत्वर्थप्रयोगे सर्वविभत्त्यर्थः। उभौ हेतू । उभाभ्यां हेतुभ्याम् । उभयोर्हेत्वोरिति । उभयड्कारो ड्यर्थः । उभयी दृष्टिः। प्रकत्यन्तरत्वावसि उभये इत्येकमेव रूपम् । उभयस्मै । उभयस्मात। नास्य द्विवचनम् । कैयटवचनात् । अन्यस्मै । अन्यस्मात् । अन्यतरशब्दोऽव्युत्पम्नस्तरोत्तरपदो वा । नायं डतरप्रत्ययान्तः । इतरस्मै । इतरस्मात् । डतरडतमौ प्रत्ययौ । ततस्तदन्ताः कतरकतमादयो ग्राह्याः । एतौ स्वार्थिकप्रत्ययौ । प्रकृतिद्वा. रेणैव सर्वादित्वे सिद्धे पृथग्ग्रहणमत्र प्रकरणेऽन्येषांखार्थिकप्रत्ययानामग्रहणार्थम्। एवं यतरततरयतमततमैकतरैकतमादयः । इह न, सर्वतमाय । त्वशब्दोऽन्यार्थः । त्वस्मै । त्वत् व्यञ्जनान्तः । तस्य स्मायादेरसम्भवे गणपाठो हेत्वर्थप्रयोगे सर्वविभक्त्यर्थोऽक्प्रत्ययार्थश्च । त्वतं हेतुम् । अज्ञातात् त्वतः त्वकतः। नेमशब्दोऽर्धार्थः । नेमस्मै । समस्मै । सिमस्मै । सर्वस्मै । देहीत्यर्थः । अन्यत्र समाय देशाय । खाभिधेयापेक्षे चावधौ नियमो व्यवस्थोच्यते । तदर्थे । पूर्वस्मै। परस्मै इत्यादि। अन्यत्र दक्षिणाय प्रवीणाय । दक्षिणायै दानायेत्यर्थः। आत्मनि आत्मीये वा स्वशब्दः। यत्वस्मै रोचते तत्स्वस्मै ददाति । यदात्मने रोचते तदात्मीयाय जनाय ददातीत्यर्थः । ज्ञातौ धने वा खशब्दो देववत्। बहिर्भावेन । बाह्येन वा योगे उपसंव्याने उपसंवीयमाने वाऽर्थेऽन्तरशब्दः सर्वादिः। अन्तरस्मै गृहाय । नगरवायाय चाण्डालादिगृहायेत्यर्थः । चाण्डालादिगृहयुक्ताय नगराभ्यन्तरगृहाय वेत्यर्थः। अन्तरस्मै पटाय पटचतुष्टये तृतीयाय चतुर्थाय वा। प्रथमस्य पाह्यभावाद्वितीयस्य वाययोगात्सिद्धमेव सर्वादित्वम् । पुरि तु न सर्वादिः । अन्तरायै पुरे क्रुध्यति । चाण्डा