________________
ह्रस्वापश्च ॥१६॥३२॥ हखान्तादावन्तात्स्त्रीदूदन्ताच शब्दात्परस्यामः स्थाने नामित्यादेशः स्यात् ।
दी? नाम्यतिसृचतसृषः ॥१॥४॥४१॥ तिसूचतसृषकाररेफान्तवर्जितशब्दसम्बन्धिनः पूर्वस्य समानस्थामादेशे नामि परे दीर्घः स्यात् । देवानाम् । अषू इति प्रतिषेधेन नकारेण व्यवधानेऽपि पञ्चानामित्यादौ दीर्घः । देव इ इत्यत्रावर्णस्येत्यादिना गुणे-देवे । देवयोः । देव सु इत्यत्र एवं कृते।
नाम्यन्तस्थाकवर्गात्पदान्तः कृतस्य
सः शिड्नान्तरेऽपि ॥२॥३॥१५॥ नामिनोऽन्तस्थायाः कवर्गाच्च परस्य पदान्तः कृतस्य विहितस्य कृतसम्ब. न्धिनो वा सकारस्य षकारः स्यात् । शिदा नकारेण व्यवधानेऽपि स्यात् । देवेषु ।
__ अदेतः समोर्लुक् ॥१४॥४४॥ अकारादेकाराचामन्येऽर्थे वर्तमानात्परस्य सेस्तदादेशस्यामश्च लुक स्यात् । हे देव । हे देवौ । हे देवाः । स्यादेशेनैवामोऽपि लुकसिद्धौ पृथग्वचनं हे कतरदि. त्यत्र दकारस्य लुगभावार्थम् । एवं जिनादयोऽकारान्ताः । सर्वादीनां तु विशेषः । सर्वादयः स्वरान्ताश्चतुर्विंशतिः । व्यञ्जनान्ता एकादश । सर्व विश्व उभ उभयट् अन्य अन्यतर इतर डतर डतम त्व त्वत् नेम सम सिम एतौ सर्वार्थों पूर्व पर अवर दक्षिण उत्तर अपर अधर एते सप्त व्यवस्थार्थाः । स्वशब्द आत्माऽऽत्मीयार्थः अन्तरं पुरीवर्ज बहिर्योगार्थ उपसंख्यानार्थश्च त्यद् तद् यद् अदम् इदम् एतद् एक द्वि युष्मद् भवतु अस्मद् किम् इत्यसंज्ञायां सर्वादिः । सर्वः । सवौं । सर्व जस इति स्थिते जकार इत्।
जस इ. ॥१॥४॥९॥ सर्वादेरकारान्तस्य जसः स्थाने इकारः स्यात् । प्रत्ययस्येति सर्वादेशः। सर्वे । सर्वम् । सवौं । सर्वान् । सर्व आ इत्यनेनादेशेऽवर्णस्येत्यादिनैकारे
रघुवर्णान्नो ण एकपदेऽनन्तस्यालच
टतवर्गशसान्तरे ॥२॥३॥१३॥