________________
२९
स्यादावसंख्येयः ||३|१|११९॥
सरूपार्थं वचनम् । सर्वस्मिन् स्यादौ विभक्तौ समानां तुल्यरूपाणां सहोतौ गम्यायामेकः शिष्यते संख्येयवाचिशब्दरूपं वर्जयित्वा । देवश्च देवश्चेति एकशेषे देवो । वस्तुबहुत्वे बहुवचनम् ॥ देव जस इतिस्थिते जकारो जसइ: (इत्यादी) विशेषणार्थः ।
अत आः स्यादौ जसुभ्याम्ये ||१|४|१||
स्यादौ जसि भ्यामि यकारे च परेऽकारस्याकारः स्यात् ।
लुगस्यादेत्यपदे
॥
अपदादाचकारे एकारे च परेऽकारस्य लुक् स्यात् । इत्यस्य बाधायाऽऽकारकरणम् । दीर्घत्वे देवाः । देव अम् इति स्थितेसमानादमोतः ॥ १|४|४६॥
समानात्परस्यामोऽकारस्य लुक् स्यात् । देवम् । देवौ ।
शसोऽतासश्च नः पुंसि ॥ १।४।४९ ॥
शसः सम्बन्धिनाऽऽकारेण सह प्रकृतेः समानस्यासन्नो दीर्घः स्यात् । तत्सनियोगे च पुल्लिंगविषये शसः सकारस्य नकारः स्यात् । देवान् । टाङसोरिनस्यौ ॥ १|४|५॥
अकारात्परयोष्टाङसोः स्याद्योर्यथासंख्यमिनस्यावादेशौ स्याताम् । देवेन । देवाभ्याम् ।
भिस ऐस ||१|४ |२॥
अकारात्परस्य स्यादेर्भिस ऐस स्यात् । अनेकवर्णः सर्वस्य । देवैः । ऐस्करणं सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न्यायस्यानित्यत्वज्ञापकम् । तेनातिजरसैः ।
ङेङस्योर्यातौ ॥ १|४|६ ॥
अकारात्परयोर्डे ङसीत्येतयोर्य आत् इत्यादेशौ स्तः । देवाय । देवाभ्याम् । भोसि || १ |६|६ ॥
बह्वर्थविषये सकारादौ भकारादावोसि च स्यादौ परेऽकारस्यैकार आदेशः स्यात् । देवेभ्यः । देवात् । देवाभ्याम् । देवेभ्यः । देवस्य । देवयोः । देव आम् इति स्थिते