________________
२८
शुक्लः । धातुविभक्तिवर्जनं किम् ? अहन् । वृक्षान् । अयजन् । अत्र नामसंज्ञा - भावान्नानो नोsन इति नकारलोपो न । विभक्त्यन्तवर्जनाच्च आपङीष्प्रभृति प्रत्ययान्तानां नामसंज्ञा स्यात् । माला । गौरी । तद्धितप्रत्ययान्तः । औपगवः । आक्षिकः । कृत्प्रत्ययान्तः । कर्ता । कारकः । वाक्यं क्रियाकारकपदसमुदायः । साधुर्धर्मं ब्रूते इति । तद्वर्जनादर्थवत्समुदायस्य समासादेर्नामसंज्ञा स्यादेव । चित्रगुः । राजपुरुषः । ईषदसमाप्तो गुडो बडुगुडा द्राक्षा | अर्थवदिति किम् ? वनम् । धनम् । नान्तस्यावधेर्मा भूत् । अनुकरणशब्देऽर्थवत्वे सति सविभक्ति - त्वेऽपि नामत्वम् । पचतिमाह । चः समुचये । नेर्विशः । यदाऽर्थवत्वं न विवक्ष्यते तदा नामसंज्ञा न स्यात् । गवित्ययमाह ।
शिर्घुट् ॥ १|१|२८ ॥
जस्शसोरादेशः शिर्घुट्संज्ञः स्यात् ।
पुंस्त्रियोः स्यमौजस् ॥१|१|२९॥
औरिति प्रथमाद्वितीयाद्विवचनयोरविशेषेण ग्रहणम् । सि औ जस अम् औ इत्येते प्रत्ययाः पुंसि स्त्रियां च घुट्संज्ञाः स्युः । आमध्ये विहितं प्रथमैकवचनं विहाय शेषट् इति ।
स्वरादयोऽव्ययम् ॥ १|१|३०॥
एते शब्दा वाचका इति नामत्वेऽप्यव्ययसंज्ञाः स्युः । परः ॥७|४|११८॥
यः प्रत्ययः स प्रकृतेः पर एव स्यात् ।
स्पर्धे ॥७|४|११९॥
द्वयोर्विध्योरन्यत्र सावकाशयोस्तुल्यबलयोरेकत्रा नेकत्र चोपनिपातः स्पर्धः । तत्र यः सूत्रपाठे परः स एव विधिः स्यात् । शसोता इत्यादेरवकाशो देवानित्यादौ । नपुंसकस्य शिरित्यादेस्तु महान्तीत्यादौ । इह तूभयं प्राप्तं धनानि । अत्र परत्वाच्छिरेव । देवस् इति स्थिते-सो रुः । रः पदान्ते विसर्गस्तयोः । देवः । नाम्नः प्रथमैकद्विवहाँ इति वक्ष्यमाणसूत्राद्वस्तुद्वित्वे देव औरिति द्विवचनं धार्यम् । ऐदौत्सन्ध्यक्षरैः ।
समानामर्थेनैकशेषः ॥ ३|१|११८ ॥
अर्थेन समानां समानार्थानां शब्दानां सहोक्तौ गम्यमानायामेकः शिष्यsuदन्ये निवर्तन्ते ।