________________
एते निपात्याः । अहर्पतिः। अहर्गणः । अहापतिः । अह पतिः । आकृतिगणोऽयम् । तेन गीपतिः । गी:पतिः । गी:पतिः।
रोरेलुग्दीर्घश्चादिदुतः॥१॥३॥४८॥
रेफस्य रेफे परेऽनुलुक् स्यात् । अत इत उतश्च पूर्वस्य दीर्घः। पुनर अग्रे रमते पुना रमते । अग्निर रथेन अग्नी रथेन । अन्वित्येव अहोरूपम् । अत्र पूर्वमेव रोरुत्वे रेफाभावाल्लुग्दीर्घाभावः सिद्धः।
ढस्त ॥१३॥४२॥ ढकारस्य तन्निमित्ते ढे परेऽनुलुक स्यात् । अदिदुतां दीर्घः। लिद ढम् लीढम् । तड्ढे इति किम् ? मधुलिडूढौकते । अन्वित्येव । लेढा । मोढा। अत्र गुणे कृते पश्चात् ढलोपः। अन्यथा पूर्वमेव ढलोपे दीर्घ च लीढा मूढा इत्यनिष्टरूपापत्तिः।
तदः सेः स्वरे पादार्था ॥१॥३॥४५॥ तदः परस्य सेः स्वरे परे लुक स्यात्सा चेत्पादार्थी पादपूरणी स्यात् । सैष दाशरथी रामः। पादार्थेति किम् ? स एष भरतो राजा।
एतदश्व व्यञ्जनेऽनगनसमासे ॥१॥३॥४६॥
एतदस्तदश्च परस्य सेलक स्यात् । व्यञ्जने परेऽप्रत्यये नसमासे च न स्यात् । एषस् दत्ते एष दत्ते । सस् दत्ते स दत्ते । परमैषम् करोति परमैष करोति। परम सस् कुरुते परम स कुरुते । अनग्नसमासे इति किम् ? एषकः करोति । सको याति । अनेषो याति । असो याति । व्यञ्जन इति किम् ? एषोऽत्र सोऽहं भजे श्रीप्रभम् ।
इति रेफसन्धिः सम्पूर्णः।
अथ स्वरान्ताः पुल्लिङ्गाः। श्रीपञ्चमाहतो मेघजन्मनो वचसो रसः। मङ्गलायाऽस्तु जातस्य साङ्गवृत्त्या जयश्रिये ॥१॥
अधातुविभक्तिवाक्यमर्थवन्नाम ॥११॥२७॥ अर्थोऽभिधेयः खार्थों द्रव्यं लिङ्गं संख्या शक्तिरिति द्योत्यश्च समुच्चयादिः । तद्वच्छब्दरूपं धातुविभत्त्यन्तवाक्यवर्जितं नामसंज्ञं स्यात् । देवः। मुनिः। साधुः।