________________
२६
व्योः ॥१३॥२३॥ अवर्णात्परयोः पदान्ते वर्तमानयोर्वकारयकारयो?षवति परे लुग् भवति। सचाऽसन्धिः । वृक्ष गच्छति इति स्थिते वृक्ष गच्छति। घोषवतीति किम् ? वृक्षव् करोति । अवणोदित्येव । तरुव् गच्छति । पदान्त इत्येव । भव्यम् । देवायाहुः । देवायाहुः । देवा आहुः। भोस् प्रभृतिभ्यो नित्यमस्पष्टावेव । तेन द्वैरूप्यमेव । उनि परेऽपि द्वैरूप्यम् । पट उ । पटवु । वयलोपास्पष्टयोरभावात् । केचित्तु रुस्थानस्य यकारस्य लोपमेवोनिपरे मन्यन्ते । तन्मते क उ आगतः। भोउ एहि । भगो उ एहि । अघो उ याहि । अपरे तु भोभगोअघोभ्यः खरे परे नित्यं लोपमेवेच्छन्ति।
अवर्णभोभगोऽघोलुंगसन्धिः ॥१॥३॥२२॥ अवर्णाद्भोभगोऽधोभ्यश्च परस्य रो?षवति परे लुक स्यात् स चासन्धिः । सन्धेनिमित्तं न स्यात् । देवा यान्ति । अकारात्तु परस्य घोषवतीत्यनेनोत्वमेव । भो गच्छसि । भगो यासि । अघो हससि ।।
रोलुप्यरि ॥२॥७७५॥ अहनशब्दस्य स्यादेलपि सत्यरेफे परे पदान्ते रोऽन्तादेशः स्यात् । रुत्वापवादः। अहरेति । अहरधीते । अहर्गणः । दीर्घाहाश्चासौ मासश्च दीर्घाहर्मासः । लुपीति किम् ? हे दीर्घाहोऽत्र । इह सेर्दीर्घङयावित्यादिना लुक । न पुनरनतो लुबिति लुप । अरीति किम् ? अहोरात्रः । अहो रूपम् । अहो रथेन ।
अह्नः ॥२।१।७४॥ अहन्शब्दस्य पदान्ते रुरित्ययमादेशः स्यात् स चासन् परे स्यादिविधौ च पूर्वस्मिन् । दीर्घाण्यहानि यस्मिन् दीर्घाहा निदाघः । अत्र रुत्वस्यासत्वान्नान्तलक्षणो नदीर्घः। अवर्णभोभगो इत्यादिना रुलोपः । अहोभ्याम् । अहःसु । पदान्तत्वं त्वत्र ।
नामसिदयव्यञ्जने ॥॥२१॥ सिति प्रत्यथे यकारवर्जिते व्यञ्जनादौ च परे पूर्व नाम पदसंज्ञं स्यात् ।
नं क्ये ॥१॥१२२॥ क्यन् क्या क्यषां क्येन ग्रहणम् । नकारान्तं नाम क्ये प्रत्यये परे पदसंज्ञं स्यात् ।
वाहर्पत्यादयः ॥१॥३॥५८॥