________________
४२३ द्रमकमो यङ्॥५॥२॥४६॥ यङन्ताभ्यामाभ्यामनः स्यात् । कुटिलं द्रमति क्रामतीति दंद्रमणः। चंक्रमणः । सकर्मकार्थवचनम् ।
यजिजपिदंशिवदादूकः ॥५॥२॥४७॥ एभ्यो यन्तेभ्य उकः स्यात् । यायजूकः । वावदूकः ।
जागुः ॥५॥२॥४८॥ प्राग्वत् । जागरूका।
शमष्टकाद् घिनण् ॥५॥२॥४९॥ शीलादे शाम्यतीत्येवंशीलः । शमी । दमी । तमी । श्रमी। भ्रमी ।क्षमी। प्रमादी । उन्मादी । लमी। युजभुजमजत्यजरंजद्विषदुषद्रुहदुहा
भ्याहनः॥५॥२॥५०॥ योगी। भोगी । भागी। तेऽनिट इति गत्वम् ।
आङः क्रीडमुषः ॥५॥२॥५१॥ घिनण् स्यात् । आक्रीडी । आमोषी।
प्राच्च यमयसः॥५॥२॥५२॥ प्रादाउश्च पराभ्यामाभ्यां घिनण् स्यात् । प्रयामी । आयामी। प्रयासी । आयासी।
मथलपः॥५॥२॥५३॥ प्रात्पराभ्यामाभ्यां घिनण् स्यात् । प्रमाथी ।
वेश्वद्रोः ॥५॥२॥५४॥ विद्राची । पदावी।
विपरित्रात्सर्तेः ॥५॥२॥५५॥ क्सिारी। प्रसारी।
समः पृचैप् ज्वरः ॥५॥२॥५६॥ सम्पर्की। संज्वरी।