________________
४२१ सुद्विषाहः सत्रिशत्रुस्तुत्ये ॥५॥२॥२६॥ सत्यर्थे वर्तमानात्सुनोतेर्द्विषः अर्हतेर्धातोः क्रमात् सत्रिणि शत्रौ स्तुत्ये च कर्तरि अतृश स्यात् । सत्री यजमानः । सर्वे मुन्वन्तः । यज्ञस्वामिन इत्यर्थः । चौरं चौरस्य द्विषन् । शत्रुरित्यर्थः । पूजामईन् । प्रशस्य इत्यर्थः।
तृन् शीलधर्मसाधुषु ॥५॥२॥२७॥ शीलादिषु सदर्थाद्धातोस्तृन् स्यात् । कर्ता कटम् । वदिता जनापवादान् । शीलादि सदर्थोऽधिकारसम्पूर्ति यावत् । भ्राज्यलकृनिराकृगभूसहिरुचिवृतिवृधिच
रिप्रजनापत्रप इष्णुः ॥५॥२॥२८॥ एभ्यः शीलादौ सत्यर्थे इष्णुः स्यात् । भ्राजते इत्येवंशीलः भ्राजिष्णुः ।
उदः पचिपतिपदिमदेः ।५।२।२९॥ उत्पविष्णुः । उत्पतिष्णुः।
भूजेः ष्णुक् ॥५॥२॥३०॥ कित्त्वान्न गुणः । भूष्णुः । जिष्णुः। स्थाग्लाम्लापचिपरिमृजिक्षेः स्नुः ॥५॥२॥३१॥ स्थास्नुः । ग्लास्नुः । पक्ष्णुः । परिमाणुः । क्षेष्णुः।
त्रसिगृधिधृषिक्षिपः नुः ॥५॥२॥३२॥ त्रस्नुः । गृचः । धृष्णुः । क्षिष्णुः ।
सभिक्षाशंसेरुः ॥५॥२॥३३॥ सन्नन्ताद्भिक्षे राशंसेश्च उ: स्यात् । दित्सुः । भिक्षुः । आशंसुः ।
विद्विच्छ ॥५॥२॥३४॥ वेत्तेरिच्छतेश्च उः स्यात् । यथाक्रमं नकारोपान्त्यता छकारान्तादेशश्च निपात्यते । वेदनशीलो विन्दुः । एषणशील इच्छुः । अपां विन्दुरित्यत्र विन्दरवयवार्थादोणादिक उः।
वन्देरारुः ॥५॥२॥३५॥ विशरारु। वंदारः।