________________
४२०
पक्षे मोनोम्वोश्च ॥ २१॥६७॥
जगन्वान् । जन्निवान् । जघन्वान् । विविदिवान् । विविद्वान् । विविशिवान् । विविश्वान् । ददृशिवान् । दद्दश्वान् ।
वेयिवदनाश्वदनूचानम् ||५|२|३||
एते कर्तरि कसुकानान्ता निपाताः । इयिवान् । अनाश्वान् । अनूचानः । शत्रानः शावेष्यति तु सस्यौ |५|२|२०॥
पचन् । पठन् । पक्ष्यन् । पठिष्यन् । भविष्यन् ।
अतोम आने ||४|४|११४॥
धातोर्विहित आने परेऽकारस्य मोऽन्तः स्यात् । पचमानः । पश्यमानः । अत इति किम् । शयानः ।
आसीनः ॥४|४|११५॥
निपातोऽयम् । आस्तेः परस्यानस्यादे रीत्वे कृते । आसीनः । उपासीनः । अवर्णाश्रोतोवा | २|१|११५ | रित्यादिना अतुः अन्तकरणे तुदन्ती । तुदती भाती भान्ती स्त्री कुलेवा ।
यशवः || २|१|११६ ॥
नित्यमन्त् । दिव्यन्ती । भवन्ती । वधूः कुले वा । अवर्णादित्येव । अदती । अनइति किम् । लुनती ।
तामाङयाक्रोशेषु ॥ ५/२/२१॥
मापचन् जाल्मो ज्ञास्यति । मापचमानोऽयं गन्तुकामः ।
पूयजः शानः ॥५।२।२३ ॥
वर्तमाने । यजति - ते वा यजमानः ।
वयः शक्तिशीले ||५|२|२४॥
सत्यर्थे धातोर्वयः शक्ति शीलेषु गम्येषु शानः स्यात् । कतीह शिखण्ड वहमाना बाला इत्यर्थः । कतीह हस्तिनं निम्नानाः । कतीह परान्निन्दमानाः ।
धारी ङोऽकृच्छ्रेऽतृश् ॥५।२।२५ ॥
सुखसाध्ये सत्यर्थे धारे रिङश्च परोतृशू स्यात् । धारयन्नाचाराङ्गम् । अधीयन्दुमपुष्पीयम् । असरूपेऽपि न स्यात् ।