SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ अजातेः पंचम्याः ॥५॥१॥१७॥ बुद्धेर्जातः बुद्धिजः। कचित् ॥५॥११७१॥ यथा लक्ष्यम् । किं जातेन किंजः। केन जातः किंजः। अलं जातेन अलंजा। द्विर्जातो द्विजः । न जातोऽजः । सुयजोईनिप् ॥५॥१॥१७२॥ सुनोतेर्यजतेश्च भूतेऽर्थे नि । सुनोति स्म सुत्त्वा । सुत्वानौ । यज्वारनौ। जृषोऽतृः ॥५।१।१७३॥ जीर्यतेर्भूतेऽतः । जीर्यते स्म जरन् जरती । इति कर्तृकर्मोपपदाधिकारः। क्तक्तवतू ॥५॥१११७४॥ भूतेऽर्थे वर्तमानाद्धातोरेतौ प्रत्ययौ स्तः। क्रियते स्म कृतः कटः। करोति स्म कृतवान्ग्रन्थं प्राज्ञः । क्तः कर्मणि भावे । क्तवतुः कर्तरि । श्लिषशीस्थासवसजनरुहज़भजेः क्तः ॥५॥१९॥ कर्तरि वा स्यात् । आश्लिष्टः स्त्री नरः आश्लिष्टा वा स्त्री नरेण । अतिशयितो गुरु शिष्यः । अतिशयितो वा गुरुः शिष्येण । आरम्भे अस्मिन्नर्थे तो वा कर्तरि । प्रकृतः कटं भवान् । कृतः कटो भवता । प्रकृतं भवता । गत्यर्थाकर्मकपिबभुजेः ॥५॥१॥११॥ एभ्यः कर्तरि तो वा स्यात् । गतोऽसौ ग्रामं गतो ग्रामोऽमुना । आसितोऽय मासितमनेन । पयः पीता गावः पीतं पयो गोभिः । सकर्मका अप्यविवक्षितकर्माणोऽकर्मकास्तेन पवितो भवान् । एवं विदितः प्रख्यातः। अद्यर्थाच्चाधारे ॥५॥१॥१२॥ अद्यर्थाद्धातो ते यः क्तःसआधारे वा स्यात् । इदमेषां जग्धमिदं तैर्जगपम्। क्वातुमंभावे ॥५॥१॥१३॥ भीमादयोऽपादाने ॥५॥१॥१४॥ भीमः । भीष्मः । भयानकः।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy