SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ४११ उर्दादिभ्यः कर्तुः ॥५॥१॥१३६॥ उर्दादिभ्यो नामभ्यः पराच्छीङ अः स्यात् । उर्दू शेते उर्द्धशयः । आधारात् ॥५॥१११३७॥ खेशेते खशयः गिरिश इति तद्धिते लोमादित्वाच्छः । क्रियार्थत्वेतु गिरिशय इति । चरेष्टः ॥५॥११३८॥ आधारवाचिनो नाम्नः पराञ्चरेष्टः प्रत्ययः स्यात् । कुरुषु चरतीति कुरुचरः। वनेचरः। भिक्षासेनादायात् ॥५।१।१३९॥ ____ एभ्यः पराचरेष्टः स्यात् । भिक्षां चरति भिक्षाचरी । सेनां चरति परीक्षते यः सेनाचरस्तापसव्यञ्जनः। सेनया वा चरति सेनाचरः। आदाय गृहीत्वा घरतीत्यादायचरः। पुरोऽग्रतोऽग्रे सर्तेः ॥५॥१॥१४०॥ टः। पुरः सरतीति पुरःसरः। पुरःसरी । अग्रतः सरति अग्रतःसरः। अग्रेसरति अग्रेसरः । सप्तम्यलुप् । एकारान्तमव्ययं वा सूत्रनिपाताद्वा एकारः। पूर्वाकर्तुः ॥५॥११४१॥ कर्तृवाचिभ्यः पूर्वशब्दात् परात्सर्तेष्टः स्यात् । पूर्वः सरतीति पूर्वसरः। पूर्वो भूत्वा सरतीत्यर्थः । कतुरितिकिम् । पूर्वदेशं सरति पूर्वेसारः। शोकापनुदतुंदपरिमृजस्तम्बरमकर्णेजप प्रियालसहस्तिसूचके॥५॥१॥१४३॥ शोकापनुदाद्यः शब्दा यथासंख्यं प्रियादिष्वर्थेषु कप्रत्ययान्ता निपाताः। शोकमपनुदति शोकापनुदः प्रियः पुत्रादिः। तुंदं परिमार्टि तुंदपरिमृजोऽलसः। स्तम्बरमो गजः । कर्णेजपः सूचकः । मूलविभुजादयः ॥५।१११४४॥ अत्र निपाताः कप्रत्ययान्ता नियतार्थधातूपपदा यथायोगं ज्ञेयाः । मूलं विभुजति मूलविभुजो रथः । उर्वीरुहो वृक्षः। दुहेर्दुघः ॥५।१११४५॥ नानः परादुहेर्दुघः प्रत्ययः स्यात् । कामान् दुग्धे पूरयति कामदुधा। असारूप्यात् कि । कामधुक । धर्मधुक् । डकारोऽन्त्यस्वरादिलोपार्थः।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy