________________
खुको स्तः । अनमो नग्नो भवति नग्नंभविष्णु नग्नं भावुकः । आयंभविष्णुः । आख्यंभावुकः।
कृगःखनट् करणे ॥५।१।१२९॥ नग्नादिभ्योऽच्यन्तेभ्यः परात्करोतेः खनट् व्यर्थे । अप्रियः प्रियः क्रियतेऽ. नेनेति प्रियकरणं शीलम् ।
भावे चाशिताद्भुवः खः ॥५॥१११३०॥ आशितशब्दात्पराद्भवते वकरणे चाभिधेये खः स्यात् । आशितेन तृप्तेन संभूयते भवता । आशितंभवो वर्तते भवतः। आशितो भवत्यनेन आशितंभव ओदनः । आशितंभवा पंचभूली । असारूप्यादनडपि । आशितस्य भवनम् । न घञ् सरूपत्वात् । नानो गमः खड्डौच विहायसस्तु विहः ॥५।११३१॥
नाम्नः पराद्मेः खड् तथा डः स्यात् खश्च विहायसस्तु विह इत्यादेशः। खडि । तुरंगः । डे। तुरगः । भुजेन भुजइव वा गच्छति भुजंगः । भुजगः । प्रवेण प्लवेन वा गच्छति । प्रवंगः । प्लवंगः । प्रवगः । प्लवगः। पतो गच्छति । पतंगः । पतगः। विहायसा गच्छति विहगः। विहंगः। सर्वगः । सर्वत्रगः। परदारगः । अग्रगः । मध्यगः। आदिगः । संज्ञायामपि खगः । नगच्छतीत्यगः पर्वतस्तरुश्च । एवं नगः । उरसा गच्छत्तीत्युरगः । पृषोदरादित्वात्सलोपः। अथ खः सुतं सुतेन वा गच्छति सुतंगमो मुनिः । मितंगमोऽश्वः । मितंगमा हस्तिनी । जनंगमा हस्तिनी । जनंगमश्चाण्डालः । प्रवंगमः कपिः । प्लवंगमो भेकः। तुरंगमोऽश्वः । भुजंगमा सर्पः।
सुगदुर्गमाधारे ॥५॥१११३२॥ डप्रत्ययान्तौ निपातौ । सुखेन दुःखेन गम्यतेऽस्मिन्निति सुगः । दुर्गा मार्गः।
निर्गोंदेशे ॥५॥१॥१३३॥ निपातः । निर्गम्यतेऽस्मिन्देश इति निर्गोदेशः।
शमो नाम्यः ॥५॥१११३४॥ शमित्यव्ययरूपान्नान्नः संज्ञायामः स्यात् । शमित्यव्ययं सुखे तत्र भवति शम्भवोऽहंन् । शंकरः। शंगरः । शंवनः। शंवरः । नानीतिकिम् । शंकरी जिनदीक्षा।
पार्धादिभ्यः शीङः॥५॥१११३५॥ अप्रत्ययः पार्थ्याभ्यां शेते पार्श्वशयः