SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ४०९ शुनीस्तनमुञ्जकुलास्य पुष्पातः ॥ ५|१|११९॥ एभ्यः कर्मभ्यः परात्ङ्केः खश् भवति । शुनिंधयः । स्तनंधयः । मुञ्जंधयः । स्तनंधयः सर्पजातिः । नाडीखरीघटीमुष्टिनासिकावा ताद् ध्मश्च ॥ ५/१/१२०॥ एभ्यः कर्मभ्यः पराद्धमतेष्ट्रधेश्च खश् स्यात् । नाडीं धमति धयति वा नाडिंधमः । नाडिंधयः । घटिंघमः । घटिंघयः । पाणिकरात् ॥ ५|१|१२१॥ आभ्यां कर्मभ्यां पराद्धमतेः खश् स्यात् । पाणिधमः । करंधमः । कुलादुदुजोद्वहः खश् ॥५|१|१२२ ॥ कुलमुडुजतीति कुलमुद्रुजो हस्ती | कुलमुद्रहा नदी । वहाभ्रालिहः || ५|१|१२३॥ खशू । वहं स्कन्धं लेढि वलिहो गौः । अभ्रंलिहं चैत्यम् । बहुविध्वरुस्तिलात्तुदः ॥५|१|१२४ ॥ एभ्यः कर्मभ्यः परान्तुदेः खश् स्यात् । बहुंतुदं युगम् । विधुंतुदो राहुः । अरुंतुदः पीडाकरः । तिलंतुदः काकः । ललाटवातशर्द्धात्तपाजहाकः ॥ ५|१|१२५ ॥ ललाटादिभ्यः परेभ्यस्तप अजहाक इत्येतेभ्यः खशू । ललाटंतपः सूर्यः । वातमजा मृगाः । शर्द्धजहा भाषाः । खशः शित्त्वादजेवत्यादेशो न स्यात् । असूयादृशः || ५|१|१२६॥ सूर्यमपि न पश्यन्तीत्य सूर्यपश्या राजदाराः । उयंपश्यतीत्युग्रं पश्यः । इरंमदः ||५|१|१२७॥ कर्मण इति निवृत्तम् । इरापूर्वान्माद्यतेः खशू श्याभावश्च निपात्यते । इरा सुरा तया माद्यतीतीरंमदः । नग्मपलितप्रियान्धस्थूलसुभगाढ्यतदन्ताच्च्यथेऽच्वेर्भूवः खिष्णुखुकञी ||५|१|१२८ ॥ नग्मादिभ्यः केवलेभ्यस्तदन्तेभ्यश्चाच्च्यन्तेभ्यः च्व्यर्थे वर्तमानेभ्यः खिष्णु चं. प्र. ५२
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy