________________
४०८ . परिमाणार्थमितनखात्पचः ॥५॥१११०९॥
परिमाणार्थप्रस्थादयः शब्दास्तेभ्यो मितनखाभ्यां च कर्मभ्यां परात्पचेः ख. प्रत्ययः स्यात् । प्रस्थंपचा स्थाली । अल्पंपचा मुनयः । मितंपचः ।
कूलाभ्रकरीषात्कषः ॥५॥११११०॥ एभ्यः कर्मभ्यः परात्कषेः खः स्यात् । कूलंकषा नदी। अभ्रंकषो गिरिः। करीषंकषा वात्या।
सर्वात्सहश्च ॥५॥१११११॥ सर्वात् कर्मणः परात्सहेः कषेश्च खः सर्वसहो मुनिः। सर्वकषः खलः।
भृ वृजि तृ तपदमेश्व नाम्नि ॥५॥११११२॥ एभ्यः कर्म परेभ्यः सहश्च खः । विश्वंभरः। पतिंवरा । शत्रुजयः। पर्वतराजः । धनंजयः पार्थः । वह्निश्च । रथंतरं साम । शत्रुतपो राजा । दमिरन्तर्भूत. ण्यर्थोऽण्यन्तश्च । ततश्च बलिं दाम्यति दमयति वा बलिंदमः कृष्णः । अरिंदमः। शत्रुसहः । एतन्नामानौ नृपौ।
धारेर्धर् च ॥५॥१११३॥ कर्मणः पराद्धारयतेः संज्ञायां खः धर इत्ययमादेशः । वसुंधरा भूमिः। युगंधरः। सीमंधरः । संज्ञायामित्येव । छत्रधारः।
पुरंदरभगंदरौ निपातौ ॥५॥१११४॥
वाचंयमो व्रते ॥५॥॥११५॥ निपातः । व्रतादन्यत्र वाग्यामः।
मन्याण्णिन् ॥५॥१।११६॥ कर्मणः परान्मन्यतेर्णिन स्यात् । पण्डितं मन्यते बन्धु पण्डितमानी ब(न्धो)न्धुः।
कर्तुः खश् ॥५।१११७॥ प्रत्ययात्कर्तुः कर्मणः परान्मन्यतेः खश स्यात् । यदाप्रत्ययार्थः कती आत्मानमेव दर्शनीयवादिधर्म विशिष्टं मन्यते तदायं कर्म तत्राऽयं विधिः । पण्डितमन्यः। पट्टीमात्मानं मन्यते पट्टिमन्या । विद्वन्मन्यः । विदुषिमन्या । असारूप्यात् णिन्नपि । पण्डितमानी । पण्तिडमानिनी।
एजेः ॥५॥१॥११८॥ कर्मणः परादेजयतेः खश स्यात् । अङ्गमेजयः । जनमेजयः ।