SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ४०७ संख्याहर्दिवाविभानिशाप्रभाभाश्चित्रकाद्यन्तानन्तकारवाहरुर्धनुर्नान्दीलिपिलिविबलिभक्तिक्षेत्रजंघाक्षपाक्षणदारजनिदो षादिनदिवसाट्टः ॥५।१११०२॥ एभ्यः कर्मभ्यः परात्करोतेष्टः प्रत्ययः स्यात् । अहेवाद्यर्थ आरम्भः । एक करः। द्विकरः । अहस्करः। दिवाकरः । अरुष्करः । इत्यादयः। हेतुतच्छीलानुकूलेऽशब्दश्लोककलहगा थावरचाटुसूत्रमंत्रपदात् ॥५॥१११०३॥ हेतुः प्रतीतशक्तिक कारणम् । तच्छीलस्तत्वभावः अनुकूल आराधकश्चित्तानुवर्ती । एषु कर्तृषु शब्दादिवर्ज कर्मणः परात्करोतेष्टः स्यात् । यशः करोतीति यशस्करी विद्या । शोककरी कन्या । कुलकरं धनम् । तच्छिले क्रीडाकरः। श्राद्धकरः । अनुकूले वचनकरः। शब्दादौ तु शब्दकारः । श्लोककारः। भृतौ कर्मणः ॥५॥१।१०४॥ कर्मशब्दात्कर्मणः परात्करोते तो गम्यमानायां टः स्यात् । भृतिवेतनं कर्ममूल्यमिति यावत् । कर्मकरः। कर्मकरी । पुनः कर्मग्रहणं शब्दरूपकर्मप्रतिपत्त्यर्थम् । क्षेमप्रियमद्रभद्रात्खाण ॥५।११०५॥ एभ्यः कर्मभ्यः परात्करोते: ख अण् इत्येतौ स्याताम् । क्षेमं करोतीति क्षेमकरः । क्षेमकारः । प्रियंकरः । प्रियकारः। हेत्वादी तीर्थकरः तीर्थकर इत्यपि कश्चित् । तीर्थकार इत्यपि कश्चित् । तीर्थकर इति क्षेमादिनियमात् । मेघर्तिभयाभयात् खः ॥५॥१११०६॥ एभ्यः कर्मभ्यः परात्करोतेः खः स्यात् । मेघं करोतीति मेघंकरो वायुः । ऋतिर्गतिः । सत्यता वाक् । ऋतिकरः। भयंकरः । अभयंकरः शान्तिः । हेत्वादि'टस्य बाधकोऽयम् । प्रियवशाद्वदः ॥५॥१॥१०७॥ आभ्यां कर्मभ्यां पराद्वदेः खः स्यात् । प्रियंवदः। वशंवदः। द्विषंतपपरंतपौ ॥५॥१११०८॥ निपातौ । निपातनस्येष्टविषयत्वास्त्रियामनभिधानम् । द्विषतीतापः। . अण्यन्तस्य तपेन स्यात् । द्विषतः पराँश्च तपति द्विषत्तापा। परतापः । .
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy