________________
सूत्राद्धारणे ॥५॥११९३॥ सूचं कार्पासादिमयम् । लक्षणसूत्रं वा सूत्रं गृह्णातीति सूत्रग्रहः प्राज्ञः। धारण इति किम् । सूत्रग्राहः। यः केवलं सूत्रभुपादत्ते न धारयति तत्राणेव । आयुधशब्देनायुधविशेषाणां ग्रहणम् । दण्डादिप्रतिषेधात् ।
आयुधादिभ्यो धृगोऽदण्डादेः ॥५॥११९४॥ दण्डादिवर्जित आयुधादिभ्यः कर्मभ्यः पराद्धृगोधातोरच् स्यात् । धनुर्धरः। जलधरः। बहुवचनादन्येभ्योऽपि दण्डादेस्तु । दण्डधारः सूत्रधारः।
हृगोवयोऽनुद्यमे ॥५॥११९५॥ कर्मणः पराद्धरतेयसि अनुद्यमेगम्येऽचू स्यात् । अस्थिहरःश्वशिशुः। कव. चहरः । कुमारः । अनुद्यमे मनोहरः प्रासादः। वयोऽनुद्यमे तु भारहारः।
आङः शीले ॥५॥१९॥ कर्मणः पराद्धरतेः शीलेऽच् स्यात् । शीलं खाभाविकी प्रवृत्तिः । पुष्पाण्याहरन्तीत्येवं शीलः पुष्पाहरः।।
दृतिनाथात् पशाविः ॥५।११९७॥ आभ्यां कर्मभ्यां पराद्धरतेः पशौ कर्तरि इः स्यात् । इतिहरिः श्वा । नाथहरिः सिंहः । अपशौ नाथहारी गश्री। नाथोऽन्यत्र नासारन्तु।
रजःफलेमलाद्रहः ॥५॥११९८॥ एभ्यः परस्य क्रमानहेरिः स्यात् । रजोग्रहिः कञ्चकः । फलेग्रहिवृक्षः । सूत्रनिर्देशादेवम् । मलग्रहिः कम्बलः।
देववातादापः।५।१९९) आभ्यां कर्मभ्यां परादापेरिः स्यात् । देवानामोति देवापिः । वातापिः।
शकृत्स्तम्बाद्वत्सत्रीहौ कृगः ॥५॥१॥१०॥ शकृत्करिर्वत्सः। स्तम्बकरिीहिः।
किंयत्तद्वहोरः ॥५॥११०१॥ किंकरोतीति किंकरः । किंकरा । किरीति हेत्वादी टः । यत्करः । तत्करः । चौये तु तस्करः। बहुकरः वहुकरा। बहुकरीति संख्यावचनादुत्तरसूत्रेण टप्रत्यये।