________________
४०४
गायोज्नुपसर्गात् टक् ॥५॥११७४॥ कर्मणः परादनुपसर्गादायतेष्टक् । वक्रगः । वक्रगी। सामगः । सामगी। गायति निर्देशो गाङनिवृत्यर्थः ।
सुरासीधोः पिबः ॥५॥१॥७५॥ सुरासीधुभ्यां कर्मभ्यां परादनुपसर्गास्पियतेष्टक् । सुरां पिबतीति सुरापः। सुरापी । सीधुपः । सीधुपी ।
__ स्थापास्त्रात्रः कः ॥५॥१११४२॥ नानः परेभ्यः । समस्थः । विषमस्थः । अश्वत्थः। द्विपः।
निनदीभ्यां नातेः कौशले ॥२॥३॥२०॥ सस्य षत्वम् । निष्णः । नदीष्णः ।
प्रष्ठोऽग्रगे ॥२॥३॥३२॥ सस्य षत्वं निपातनात् । अन्यत्र प्रस्थः । चतुर्भिः कुडवैः प्रस्थः । गोऽम्बाम्बसव्यापद्वित्रिभूम्यग्निशेकुशंकुकंगुमञ्जिपुञ्जिवर्हिःपरमेदिवेः
स्थस्य ॥२॥३॥३०॥ एभ्यः परस्य सस्य षस्वम् । गोष्ठम् । अम्बष्ठः । आम्बष्टः । परमेष्ठः । अतएव निपातनात्सप्तम्या अलुए। तत्पुरुषे कृति ३।२।२० इति तु नेन्सिद्धस्थे ३।२।२९। इति प्रतिषिद्धम् । द्विष्ठः । निष्ठः।
प्राज्ज्ञश्च ॥५॥१॥७९॥ कर्मणः पराजानातेर्दारूपाच डः स्यात् । पथिप्रज्ञः । प्रेषप्रज्ञः । प्रपा प्रददाति प्रपामदः।
आशिषि हनः ॥५।११८०॥ कर्मणः पराद्धन्तेर्डः स्यात् । शत्रु वध्याच्छत्रुहः ।
क्लेशादिभ्योऽपात् ॥५।१।८१॥ क्लेशमपहन्ति क्लेशापहः । तमोपहः । दार्वाधाट चार्वाघाट इति तु घटते. रणिसंज्ञायाम् । हन्तेस्तु चारु आहन्तीति चार्वाधातः दार्वा घातः ।