SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ४०३ देरियमुक्तिः । आशिषीति किम् । जीविका । नन्दिका । भाषिका | नकार इचापुंसो नित्क्यापरे इत्यत्र व्युदासार्थः । तेन जीवका । नन्दका । भवका । तिकृतौ नानि ॥ ५११७१ ॥ आशिषि विषये संज्ञायां धातोस्तिक कृतश्च सर्वे प्रत्ययाः स्युः । शम्यादिति शान्तिः । तस्यादिति तान्तिः । न तिकि दीर्घव ॥ ४२॥५९॥ यमरम्यादीनां तिकिप्रत्यये लुग दीर्घश्च न भवति-सन्यादिति सन्तिः । वीरोभूयादिति वीरभूः । मित्रभूः । क्विप् । अग्निरस्य भूयादित्याशास्यमानोऽग्निभूतिः । तौ सनस्तिकि ॥४२॥६४॥ सनित्येतस्य तिकिप्रत्यय परे-तौलकाकारौ वा भवतः । सतिः । सातिः । सान्तिः । इति तु षणभक्तावित्यस्य कर्मणोऽण् ॥५/१/७२ ॥ कर्मणः पराद्धातोरण प्रत्ययः स्यात् । ङस्युक्तं कृते |३|१|४९ | ति समासः । कुम्भकारः । प्राप्यात् वेदाध्यायः । भारहारः । द्वारपालः । आदित्यं पश्यतीत्यादावनभिधानान्न स्यात् । शिलि कामि भक्ष्याचरीक्षि क्षमाणः ॥५॥१॥७३॥ कर्मणः परेभ्य एभ्यो णः स्यात् । धर्म शीलयतीति धर्मशीलः । धर्मकामा । अणोऽपवादः । कामीति ण्यन्तस्योपादानात् अण्यन्तेऽणेव पयस्कामीति । ण्यन्तस्य तु णे सति । पयःकामा सकारादेशो न स्यात् । अतएव ण्यन्तनिर्देशात् । अतः कृकमीति सूत्रादी केवलस्यैव कमेर्ग्रहणात् । वायुभक्षः । वायुभक्षा आणूवश्वरिः । कल्याणाचारः । कल्याणाचारा स्त्री । आतो डोऽह्वावामः ॥५॥१॥७६॥ कर्मणः परादनुपसर्गादाकारान्ताद्धातोः हावामावर्जितात् ड प्रत्ययः स्या त् । गोदः । कम्बलदः । ह्रावामानां तु । स्वर्गह्रायः । तन्तुवायः । धान्यमायः । अत्राप्रत्ययः । अनुपसर्गादिति किम् गोसंदायः । ब्रह्म जिनातीति ब्रह्मज्यः । वपुर्वीतवानिति वपुर्भ्यः । कथं मित्रह्नः कचिदि |५|१|१७१ । ति डः । समः ख्यः ॥ ५१॥७७॥ कर्मणः परात् संपूर्वात् ख्यो डो भवति । गां संख्याति संचष्टे वा गोसंख्यः । दश्चाङः || ५|१॥७८॥ आङपूर्वाद्ददातेः ख्यश्च डो भवति । दायादः । रुयाख्यः ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy