SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ लिम्पविन्दः ॥५॥१॥६॥ शः स्यात् । लिम्पः । विन्दः । निगवादेर्नानि ॥५॥१॥६१॥ निपूर्वाल्लिम्पेर्गवादिपूर्वाच विन्दे निशः। निलिम्पन्तीति निलिम्पा देवाः। गां विन्दतीति गोविन्दः । अरां विन्दतीति अरविन्दम् । वा ज्वलादिदुनीभूग्रहास्त्रोणः ॥५॥१॥३२॥ अनुपसर्गादेव । आस्रो रापूर्वोत्स्रवतेरित्यर्थः । षहिपर्यन्ता ज्वलादयः। एभ्यो णो वा स्यात् । पक्षेऽच् ज्वालः । ज्वलः। चालः। चलः। उपसर्गे तु प्रज्वलः । दवः । दावः । नयः । नायः । ग्राहो जलचरः। ग्रहः सूर्यादिः। आस्रवः। आस्रावः । तन्व्यधीश्वसातः ॥५॥१॥६४॥ तन् व्यधू इण् श्वस् एभ्य आदन्ताच धातोर्णः स्यात् । तानः। सोपसर्गत्वेऽप्युत्तानः । अवतानः । व्याधः । अन्तरायः। आश्वासः। अवश्यायः। प्रतिश्यायः । ददः । दधः । इति । अचिददि दध्योरिति । नृत्खनःशिल्पिन्यकट् ॥५॥१॥३५॥ नर्तकः । खनकः। अकधिनोश्च रञ्जः। रजकः । रजकी। भाष्ये तु रजका । पुंयोगे रजकी। गस्थकः ॥५॥१॥६६॥ गायते: शिल्पिनि कर्तरि थका प्रत्ययः स्यात् । गायकः । टनण् ॥५॥१॥६७॥ गायतेः शिल्पिनि कर्तरि टनण् प्रत्यय: स्यात् । गायनः । गायनी । हः कालत्रीह्योः ॥५॥१॥६८॥ जहातेर्जिहीतेर्वा कालवीयोः कोंष्टनण् स्यात् । जहाति जिहीते वा भा. वान हायनः सम्वत्सरः । जहात्युदकं दूरोत्थानाजिहीते वा द्रुतं नाम हायना ब्रीहयः। प्रसृल्वोऽकः साधौ ॥५॥१६९॥ एभ्यः साध्वर्थेऽका प्रत्ययः स्यात् । साधुप्रवत इति प्रवकः । लवकः । आशिष्यकन् ॥५॥११७०॥ इष्टस्य प्रार्थनमाशीस्तस्यां गम्यायां धातोरकन् प्रत्ययः स्यात् । जीवतादिति आशास्थमानो जीवकः । नन्दतानन्दकः । भवतात् भवकः । आशासितुः पित्रा
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy