SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ अचि ॥३॥४॥१५॥ अचि प्रत्यये परे यडो लुम्भवति । इति यङो लुपि। चेक्रियः । नेन्यः। लोलुवः । पोपुवः। न वृद्धिश्चाविति किल्लोपे ॥४॥३१॥ अविति प्रत्यये यः कितो ङितोश्च लोपस्तस्मिन्सति गुणो वृद्धिश्च न स्यात् । लोपोऽदर्शनमात्रमिह गृह्यते । तेन देव्यः । वेव्यः । मरीज इत्यादिसिद्धिः । चराचर चलाचल पतापत वदावद घनाघन पाटूपटं वा ॥४॥१॥१३॥ एतेऽचि कृतद्वित्वा वा निपात्यन्ते । चरतीति चराचरः । पक्षे धरः। चला. चलः । चलः । पतः । वदः । हनः । पटः।। नाम्युपान्त्यप्रीकृगृज्ञः कः ॥५।१५४॥ . विक्षिपः । विलिखः । बुधः । कृशः । ज्ञः । प्रीणातीति प्रियः । किरतीति किरः। गिलतीति गिलः । असारूप्यात् क्षेपकः । क्षेप्ता। गेहे ग्रहः ॥५॥१॥५५॥ कः । गृहम् गृहाणि । गृहाः । पुंसि बहुस्व एव । उपचारादाराः गृहाः । उपसर्गादातोडोऽश्यः ॥५॥१॥५६॥ अश्य इति शैड् वर्जितादाकारान्तात्सोपसर्गात् डप्रत्ययः स्यात् । आह्वय. ति आह्वः । सुग्लः । प्रज्ञः।। व्याघ्राले प्राणिनसोः ॥५॥१॥५७॥ ___ व्याघ्र आघ्र इत्येतौ जितेन्तिौ क्रमात्माणिनासिकायां च निपात्येते । वि. विधमाजिघ्रतीति व्याघ्रः प्राणी । आजिघ्रतीति आघा नासिका । शस्यापवादः। प्राध्मापाट्धेदृशः शः ॥५॥११५८॥ पिवतीति पिथः । जिनः । धमः । धयः । पश्यः । साहि साति वेधुदेजि धारि पारि चेते रनुपसगात् ॥५॥११५९॥ एभ्यो ण्यन्तेभ्यःच्या प्रत्ययो भवति । साहयतीति साहयः । सातिः सौत्रो धातुः सुखार्थः। सातयः । वेदयः । उदेजयः । धारयः । पारयः । चेतयः । साति असारूप्यात् कि । सातयतीति सात् परमात्मा सात्वन्तो भक्ताः। चं.प्र.५१
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy