SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ तुः ॥४॥४॥५४॥ अनात्मने विषयात् क्रमः परस्य तुः तृचः तृनश्च स्तायशित आदि रिट् स्यात् । ऋमिता । निष्क्रमिता । अनात्मन इत्येव । प्रक्रन्ता । क्रमेरात्मनेपदविषयः कर्मव्यतिहारवृत्त्यादिषुप्रोपल्याङ् पूर्वश्चारम्भादिषु । व्यतिक्रन्ता। पराक्रन्ता गमोऽनात्मने ॥४॥४॥५१॥ जिगमिषितुम् । जिगमिषिता। न वृद्धयः ॥४॥४॥५५॥ विवृत्सिता । सिसन्त्सिता । शिशृत्सिता । चिलप्सिता । यङन्ताणणके अल्लोपस्य स्थानित्त्वादवृद्धौ पापचकः । यङो लुप्सेः । पापाचकः। अच् ॥५॥१॥४९॥ धातो रच् प्रत्ययः स्यात् कर्तरि । करः । हरः । पचः । पठः । लिहादिभ्यः ॥५॥१॥५०॥ लिहादिभ्योऽच् स्यात् । लेहः। शेषः । सेवः । देवः । मिहेः संज्ञायां हस्थ घत्वे मेघः। अन्यत्र मेहः । देहः । बहुलाधिकारात् कोऽपि स्यात् । श्वपचः। श्वपाक इति तु न्यंकादिपाठात् । पारापतः । बहुवचनमाकृतिगणार्थम् । नदी । भषी। चोरी । देवी । सेवी । गाहीत्यादयोऽजन्ता गौरादौ. द्रष्टव्याः। ब्रुवः ॥५॥१॥५१॥ अगो धातोरचि ब्रुव इति निपात्यते । ब्रामणमात्मानं ब्रूते ब्रामणब्रुवः । नन्द्यादिभ्योऽनः ॥५॥१॥५२॥ नन्द्यादयस्तु नन्दन रमण इत्यादि नाम गणशब्देभ्य उद्धृत्य वेद्याः ॥ नंदिवासि मदिदूषि इत्यादिभ्यो ण्यन्तेभ्यः संज्ञायामनः स्यात् । नन्दयति नन्दनः। वासनः । मदनः। तपनः । लवणः । निपातनापणत्त्वमसंज्ञायामपि । रिपुदमनः। परार्दनः। ग्रहादिभ्यो णिन् ॥५॥१॥५३॥ ग्राही । स्थायी । विशयी। विषयी । निपातनात्षत्वम् । परिभावी । परिभवी विभाषया वृद्धिः । विशयीत्यादौ न वृद्धिः । सर्व निपातनादिति । लिहादिर्ग्रहादिश्चाकृतिगणः।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy