________________
१९८ णिन्चावश्यकाधमये ॥५॥४॥३६॥ अवश्यं भाव आवश्यकम् । ऋणेऽधमोऽधमणः । तस्य भाव आधमय॑म् । आवश्यके आधमण्र्ये च गम्ये कर्तरि वाच्ये धातोर्णिन् कृत्याश्च स्युः। अवश्यं करोतीति कारी । हारी । यदावश्यमा प्रयोगः उभाभ्यामपि द्योतनात्तदा मयूर व्यसंकादित्वात्समासः । अवश्यंकारी । अवश्यशब्दोऽकारान्तस्तत्प्रयोगेऽवश्य: कारी । आधमण्र्ये शतदायी । सहस्रदायी।
अर्हे तृच् ॥५॥४॥३७॥ अहें कर्तरि वाच्ये धातोस्तृच् स्यात् । भवान् कन्याया वोढा । सप्तम्यप. वादः । स्तोतुमह: स्तुत्यः । शक्तार्हे कृत्याश्च ५/४॥३५॥ इत्यर्हे क्यप् ।
भव्यगेयजन्यरम्यापात्याप्लाव्यं न वा ॥५॥१॥७॥
एते कर्तरि वा निपात्यन्ते । भवत्यसो भव्यः । पक्षे भव्यम् अनेन । गायतीति गेयश्चैत्रो गाथानाम् । पक्षे गेया गाथाश्चैत्रेण । जायत इति जन्यः । पुत्रः। जन्यं कार्यम् अनेन । रमयत्यसौ रम्यः । रम्यतेऽनेन रम्यम् ।
प्रवचनीयादयः ॥५॥१८॥ कर्तरि अनीयान्ता निपाताः । उपस्थानीयः शिष्यो गुरोः । उपस्थानीयो गुरु शिष्येण।
रुच्याव्यथ्यवास्तव्यम् ॥५॥१॥६॥ एते कर्तरि निपात्या क्यचन्ताः। रोचते इति रुच्यो मोदको मैत्राय ।न व्यथते इति अव्यथ्यो मुनिः। वसतीति वास्तव्यः।
ते कृत्याः ॥५॥१॥४७॥ ते घ्यण तव्यानीय य क्यप् एते पञ्च कृत्यसंज्ञाः स्युः॥
इति कृत्याधिकारः सम्पूर्णः ॥
णकतृचौ ॥५॥१॥४८॥ एतौ धातोः कर्तरि स्तः । पाचकः । पक्ता । कारकः । कर्ता । भावकः । भविता। पाठकः । पठिता । वहतीति वोढा । कारिका । कीं ।
कुटादेर्डिद्वदणित् ॥४॥३॥१७॥ कुटिता। णित्त्वाद्गुणे कोटकः ।