________________
३९७
आसुयुवपिरपिलपित्रपिडिपिदभिच
म्यानमः ॥५॥१२०॥
आङ्पूर्वाभ्यां सुनोतिनमिभ्यां यौत्यादिभ्यश्च ध्यण् स्यात् । यापवादः । आसाव्यम् । याव्यम् । वाप्यम् । राष्यम् । लाप्यम् । त्राप्यम् । डेप्यम् । दभिः सौत्रो बन्धने । दाभ्यम् । आचाम्यम् । आनाम्यम् । नमिरन्तर्भूतण्यर्थः सकर्मकः । अकर्मकोsपि ण्यर्थे सकर्मकः । यथा नेमिं नमन्ति ।
एते
परिचाय्योपचाय्यानाय्य समूह्यचित्यमभौ ॥५।१।२५ ॥ निपात्यन्ते । परिपूर्वाश्चिनोतेर्घ्यण आयादेशश्च । परिचाय्योऽग्निः । परिचयोऽन्यत्र । एवमुपचाय्योग्निः । उपचेयोऽन्यः । आङ्पूर्वान्नयतेर्ध्यणि आयादेशे आनायो दक्षिणाग्निः । आनेयोऽन्यः । समुह्यते समूह्योऽग्निः । अन्यत्र संवाह्यः । चित्योऽग्निः । चेयोऽन्यः ।
याज्यादानर्चि ॥ ५ ॥१॥२६॥
दानाय पठ्यते या ऋक् तस्यां याज्या । इज्यतेऽनयेति याज्या करणेऽर्थे निपात्यते ।
वाssधारेऽमावस्या | ५|१|२१॥
अमापूर्वाद्वसतेराधारे घ्यण प्रत्ययो धातोः पक्षे हखश्च निपात्येते । अमा सह वसतोऽस्यां सूर्याचन्द्रमसाविति अमावस्या | अमावास्या वा । प्रणाय्यो निष्कामासम्म || ५|१|२३||
पूर्वान्नयतेण निष्कामेऽसम्मते च वाच्ये । प्रणाय्योऽन्तेवासी । विषयेवनभिलाष इत्यर्थः । प्रणाय्यश्चौरः । सर्वासम्मतः । प्रणेयोऽन्यः ।
धाय्यापाय्यसान्नाय्यनिकाय्यं ऋमानह
विर्निवासे ॥५|१|२४ ॥
क्रमादेते ऋगाद्यर्थेध्यणन्ताः । धाय्या ऋक् । अन्या धेया । मीयते येन तन्मानम् । पाय्यं हस्तादि । मेयमन्यत् । सान्नाय्यं हविः । संनेयमन्यत् । निकाय्यो निवासः । निचेयमन्यत् ।
सञ्चाय्यकुण्डपाय्यराजसूयं ऋतौ ॥५॥१२२॥
एते तो वाच्ये ध्यणन्ता निपाताः । प्रेषानुज्ञावसरे कत्येति ( ५/४/२९ ) स्वया गन्तव्यम् | गमनीयम् । गम्यम् । यद्यपि सामान्ये न भावकर्मणोर्विहिताः कृत्प्रत्ययास्तथापि सर्वप्रत्ययापवादत्वात् पञ्चम्याबाधो माभूदिति पुनर्विधीयन्ते ।