SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ३९६ ऋवर्णव्यञ्जनाद् ध्यण् ॥५।१११७॥ कार्यम् । वार्यम् । पाणिसमवाभ्यां सृजः ॥ ५|१|१८ ॥ पाणिभ्यां सृज्यते पाणिस रज्जुः । समवसर्ग्यः । नवचेतौ ||४|१|११३॥ वञ्चेश्चस्य कत्वं न । वञ्चेर्घञ् । वञ्चम् वञ्चति । गन्तव्यं गच्छतीत्यर्थः । गताविति किम् ? व काष्ठम् । कुटिलमित्यर्थः । यजेर्यज्ञाङ्के ||४|१|११४॥ न जस्य गत्वम् । पञ्च प्रयाजाः । अन्यत्र । प्रयागः । व्यण्यावश्यके ||४|१|११५॥ चजोः कगौ न । अवश्यपाच्यम् । अवश्यरञ्ज्यम् । निप्राद्युजः शक्ये ||४|१|११६॥ नियोक्तुं शक्यो नियोज्यः । प्रयोज्यः । नात्र गत्वम् । भुजो भक्ष्ये ||४|१|११७॥ भोज्यमन्नम् | भोज्या यवागूः । अत्र न जस्य गः । अन्यत्र भोग्यः कम्बलः । वचोऽशब्दनानि ||४|१|११९॥ वाच्यम् । शब्दसंज्ञायां वाक्यम् । त्यजयजप्रवचः ॥४|१|११८ ॥ air ध्यणि न । त्याज्यम् । याज्यम् । प्रवाच्यम् । शब्दसंज्ञार्थं प्रवचित्रहणम् । प्रवाच्यः । पाठविशेषस्तदुपलक्षितग्रन्थो वा । उपसर्गनियमार्थ वा । प्रपूवस्यैव बचेः अशब्दसंज्ञायां निषेधो भवति नान्योपसर्गपूर्वस्य । अधिवाक्यं नाम दशरात्रस्य यज्ञस्य यद्दशममहः । यस्मिन् याज्ञिका अधिब्रुवते तस्मिन्नेवाभिधानम् । उवर्णादावश्यके ||५|१|१९॥ ध्यणू । लाभ्यम् । पाव्यम् । यन्नियोगात्कर्तव्यम् ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy