SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ अग्निचित्या ||५/१/३७॥ निपातोऽयम् । अग्निचित्या । ३९५ खेयमृषोद्ये ॥ ५|१|३८॥ खनेः क्यपि खेयम् । मृषापूर्वाद्वदतेः पक्षे ये प्राप्ते नित्यं क्यप् । मृषोद्यम् । ध्यणोपवादः । निपातावेतौ । भृगोऽसंज्ञायाम् ||५|१|४५॥ क्यप् । भृत्यः । पोष्यः । अंसंज्ञायां किम् ? भार्यो नाम क्षत्रियः । भार्या पत्नी । समो वा ॥५९॥४६॥ संभृत्यः । संभार्यः । कृवृषिमृजिशंसि दुहिगुहिजपो वा ॥ ५ | १|४२ ॥ क्यप् । कृत्यम् । कार्यम् । वृष्यम् । वयम् । मृज्यम् । मार्ग्यम् । शस्यम् । शंस्यम् । गुह्यम् । गोह्यम् । दुह्यम् । दोश्यम् । जप्यम् । जाप्यम् । तेsनिश्चजोः कगौधिति ||४|१|१११॥ hsfact धातोश्चकारजकारयोः स्थाने घिति प्रत्यये क्रमात्कगौ स्याताम् । मार्ग्यः । न्यङ्कगमेघादयः ||४|१|११२॥ न्यङ्कादयः कृतकस्वा, उद्गादयः कृतगत्वा, मेघादयः कृतघत्वा निपात्यन्ते । जिविपुन्यो हलिमुञ्ज कल्के || ५|१|४३|| जयतेर्विपूर्वाभ्यां च पूनीभ्यां यथासंख्यं हलिमुञ्जल्केषु कर्मसु वाच्येषु क्यप् स्यात् । महद्धलं हलिः । मुञ्जस्तृणविशेषः । कल्कस्त्रिफलादीनाम् । जीयते निपुणेनेति जित्या जित्यो वा हलिः । पूङ् पूग् वा । विपवितव्यः । विप्रयो मुञ्जः । विनेतव्यस्तैलादिना मध्ये इति विनीयः कल्कः । अन्यत्र जेयः । विपत्र्यः । विनेयः । प्रत्यपिग्रहेछन्दसि । प्रतिगृह्यम् । अपिगृह्यम् । लोके तु प्रतिग्राह्यम् । अपिग्राह्यम् । I पदास्वैरिवाद्यापक्ष्ये ग्रहः || ५|१|४४ ॥ क्यप् । प्रगृह्यं पदम् । अखैरी गृह्याः कामिनः रागादिपरतन्त्र इत्यर्थः । बाह्यायां ग्रामगृह्या सेना । बहिर्भूता इत्यर्थः । स्त्रीलिङ्गवचनात्पुन्नपुंसकयोर्न | पक्ष्ये स्वयः । तव पक्षे । मगृह्यः । मम पक्षे ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy