________________
आङोयि ॥४।४।१०४॥ आङः परस्य लभोनोऽन्तः स्यात् यादौ प्रत्यये विवक्षिते । आलम्भ्यो गौः।
उपात्स्तुतौ ॥४।४।१०५॥ नोऽन्तो वा लभः। उपलम्भ्यः साधुः। उपलभ्यो था । स्तुताविति किम् ? उपलभ्या वार्ता । वध्य इति ध्यणे च । न जनवध (४।३२५४) इति वृद्धिनिषेधात् । एवं जन्यमपि ।
यमिमदिगदोऽनुपसर्गात् ॥५॥१॥३०॥ यः प्रत्ययः स्यात् । यम्यम् । मद्यम् । गद्यम् । अनुपसर्गादिति किम् ? आयाम्यम् । प्रमाद्यम् । निगाघम् । पवर्गान्तत्वात्सिद्धे यमो नियमार्थं वचनम् । अनुपसर्गादेव यथा स्यात् । बहुलवचनात्करणेऽपि । माद्यत्यनेन मद्यम् । सोपसर्गादपि नियम्यमिति ।
__चरेराङस्त्वगुरौ ॥५॥१॥३१॥ अनुपसर्गाचरेराङस्त्वगुरावर्थे यः प्रत्ययो भवति। चर्यः । आचर्यो देशः। गन्तव्य इत्यर्थः । आङस्त्विति किम् ? अभिचार्यम् । अगुरौ किम् ? आचार्यो गुरुः । वर्योपसर्यावधपण्यमुपेयर्तुमतीगर्य
विक्रेये ॥५॥१॥३२॥ वर्यादयः शब्दा उपेयाद्यर्थेषु क्रमाद्यान्ता निपात्यन्ते । वृणोतेये वर्या शतेन कन्या । वृत्यान्या । उपात्सर्तेर्ये उपसर्या ऋतुमती चेद्गौः । गर्भग्रहणे प्राप्तसमया । अन्यत्रोपसार्या शरदि मथुरा । नञ्पूर्वाद्वदेर्ये अवयं पापम् । गद्यम् । अनूद्यमन्यत् । आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृहीयाज्येष्ठापत्यकलत्रयोः॥१॥ पणेर्ये पण्या गौः। विक्रेया इत्यर्थः । अन्यत्र पाण्यः साधुः। स्तुत्यर्हः।
वह्यं करणे ॥५॥१॥३४॥ वहे करणे यो निपात्यते । वहत्यनेन वा शकटम् । वाह्यमन्यत् ।
स्वामिवैश्येऽर्यः ॥५॥१॥३३॥ अर्तेः स्वामिनि वैश्ये चाभिधेये यान्तो निपातः। अर्यः खामी। अर्यो वैश्यः । अन्यत्र । आर्यः साधुः।
च. प्र. ५०