________________
३९२
र्वा ॥ २३॥८८॥
अदुरुपसर्गान्तः शब्दस्यानिमित्तात्परस्य ण्यन्तधातोर्विहितस्य खरादुत्तरस्य कृतो नस्य णो वा स्यात् । प्रयापणीयम् । प्रयापनीयम् । प्रयाप्यमाणम् । प्रयाप्यमानम् । क्यव्यवधानेऽपि स्यात् । विहितविशेषणात् ।
व्यञ्जनादेर्नाम्युपान्त्याद्वा ॥ २|३|८७ ॥
अदुरुपसर्गस्थान्निमित्तात्परो यो व्यञ्जनादिनाम्युपान्त्यो धातुस्ततः परस्य कृद्विषयस्य स्वरादुत्तरस्य नस्य णो वा स्यात् । प्रकोपणम् । प्रकोपनम् । नाम्यादेरेवने || २|३३८६ ।
#
अदुरुपसर्गान्तस्थाद्रष्टवर्णात्परस्य नागमे सति नाम्यादेरेव धातोः परस्य खरादुत्तरस्य कृन्नकारस्य णो भवति । प्रेङ्खणम् । प्रेङ्गणम् । नकारस्य व्यवधाने प्रातिरेव नास्ति । प्रेन्वनम् । ण्यन्तात्तु णैर्वे (२२३३८८1 ) ति विकल्पः । प्रमंगणा । प्रमङ्गना ।
निंसनिक्षनिन्दः कृति वा ॥ २३३८४ ॥
अदुरुपसर्गान्तस्थान्निमित्तात्परस्यैषां कृत्प्रत्यये परे नो णो वा स्यात् । प्रणिस्ते । प्रणिक्षति । प्रणिन्दति ।
नव्या भूभाकमगमप्यायवेपोणेश्च ॥२३॥९०॥
अदुरुपसर्गान्तस्थाद्रष्टवर्णात्परेभ्य एभ्यो ण्यन्तेभ्योऽप्यन्तेभ्यश्च परस्य कृन्नकारस्य णत्वं न स्यात् । प्रख्यानम् । प्रपवनम् । प्रभवनम् । प्रभानम् । ण्यन्तेभ्योsपि । प्रख्यापनम् । प्रपावनम् ।
य एच्चातः || ५|१|२८|
ऋवर्णव्यञ्जनाद्वण वक्ष्यते । ततः परिशिष्टात्स्वरान्ताद्धातोर्यः स्यात्, अन्त्य - स्याकारस्य च एकारः स्यात् । दित्स्यम् । धित्स्यम् । चेपम् । जेयम् । गेयम् । शेयम् । नव्यम् । हव्यम् । लव्यम् । देयम् । धेयम् ।
शक्तिकिचतियतिशसिसहियजिभजिपवर्गात् ||५|१|२९॥
शक्यादेः पवर्गान्ताच धातोर्यः स्यात् । ध्यणोऽपवादः । शक्यम् । तक्यम् । चत्यम् । यत्यम् । शस्यम् । सह्यम् । यज्यम् । भज्यम् । तप्यम् । लभ्यम् । गम्यम् । यजेः त्यजयजप्रवच (४/१/११८) इति ध्यणि कगयोर्निषेधात् यज्यम् । भजेर्षा हु लकाद् ध्यण् । विभाग्यम् ।