________________
ज्ञापकः। नन्दनः । नन्दकः। नन्दयिता। असरूप इति किम् ? घ्यणि यो न स्यात् । कार्यम् । डविषयेऽण् न स्यात् । गोदः ॥ अनुबन्धोऽप्रयोगीति सारूप्यात् । प्राक्तेरिति किम् ? कृतिः। चितिः । रक्षितम् । रक्षणम् । घनादिन स्यात् । चिकीर्षा । जिहीर्षा । नात्र क्तिः। ईषत्पान इत्यादौ खल् न स्यात् । अपवादत्यादिविषये तु असरूपेप्युत्सर्गः।
बहुलम् ॥५॥१॥२॥ अधिकारोयम् । कृत्प्रत्ययो यथा निर्दिष्टार्थादेरन्यत्रापि बहुलं स्यात् । मुह्यत्यनेनात्मा इति मोहनीयं कर्म । स्लानीयं चूर्णम् । एवं यानीयोऽश्वः। दीयतेऽस्मै इति दानियोऽतिथिः । समावर्तते तस्मादिति समावर्तनीयो गुरुः । तिष्ठन्त्यस्मिनिति स्थानीयं नगरम् ।
कर्तरि ॥५॥१३॥ कृत्प्रत्ययोऽर्थविशेष विना कर्तरि स्यात् । अर्थान्तरवचने तु न । तत्साप्यानाप्यारकर्मभावे कृत्यक्त
खलाश्च ॥३३॥२१॥
तव्यानीयौ ॥५॥१॥२७॥ यथा धातोरेतौस्तः । कर्तव्यं करणीयं स्वया। भावे औत्सर्गिकमेकवचनं क्लीवत्वं च । चेतव्यश्चयनीयो वा धर्मस्त्वया।
व्याप्येघुरकेलिमकृष्टपच्यम् ॥५॥१॥४॥ धुरकेलिमौ प्रत्ययौ । कृष्टपच्यशब्दो यान्तो व्याप्ये कर्तरि स्यात्। भासमिदिविदा घुरः कर्तर्येव कर्मकर्तुरसम्भवात् । भासुरः। मेदुरः। विदुरः। भज्यते स्वयमेव भङ्गुरं काष्ठम् । भिदुरः पटः । विदुरा रज्जुः । अत्र कर्मकर्तरि । पच्यन्ते स्वय. मेव पचेलिमा माषाः । पक्तव्याः। भिदेलिमास्तन्दुलाः। भेत्तव्याः। कृष्टे पच्यन्त इति कृष्टपच्या शालयः।
स्वरात् ॥२॥३३८५॥ दुर्वज्योपसर्गस्थनिमित्तात्परस्य कृद्विषयस्य स्वरादुत्तरस्य नस्य णः स्यात् । प्रयाणीयम् ।
निर्विण्णः ॥२॥३२८९॥ निर्वाद्विदेः सत्तालाभविचारात्परस्य से नकारस्य णत्वं निपात्यते । निर्षिण्णः प्रावाजीत् । कश्चित्तु वेत्तेरपीच्छति । निर्विष्णवानिति ।