SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३९० स्मे पञ्चमी ||५|४|३१॥ स्मशब्दे उपपदे प्रैषादिषु ऊर्द्धमौहूर्तिके वर्तमानाद्धातोः पञ्चमी भवति । ऊर्द्धमुहूर्ताद्भवान् कटं करोतु स्म । कृत्यससम्यपवाद: । अधीष्टौ ॥५॥४॥३२॥ अध्येषणायां गम्यमानायां स्मे उपपदे धातोः पश्चमी स्यात् न सप्तमी । अङ्ग स्म विद्वन्नणुव्रतानि रक्ष शिक्षां प्रतिपद्यख । कालवेलासमये तुम्वाऽवसरे ||५|४|३३|| एषूपपदेषु अवसरे गम्यमाने धातोस्तुम्प्रत्ययो वा स्यात् । कालो भोक्तुम् । वेला भोक्तुम् । समयोऽध्येतुम् । पक्षे कालो भोक्तव्यस्येत्यादि । सप्तमी यदि ||५|४|३४ ॥ कालो यदधीयीत भवान् । वेला यद्भुञ्जीत भवान् । शक्ता कृत्याश्च ॥ ५५४॥३५॥ भवता खलु भारो वाथः । वोढव्यः । चात्सप्तमी । उद्येत भवान् भारं वहेत् । भवान् हि शक्तः । खलु कन्या वाह्या । वोढव्या वहेद्वा । भवानेतदर्हति । आशिष्याशीः पञ्चम्यौ || ५|४|३८|| आशासनमाशीः । तद्विषये वर्तमानाद्धातोराशीर्विभक्तिः पञ्चमी च स्यात् । जीयात् श्रीनाभिजन्मा । जीयास्तां पार्श्ववीरौ । जीयासुः सर्वे जिना महर्षयश्च । जयतु जिनशासनम् । जयताद्वा । आहत्यं श्रीसंघप्रतिष्ठितं जयतु । श्रीगुरवः सुधर्माद्याः साम्प्रतं जगति भानुद्युतेः स्यान्मृगाङ्करुचिरन्विताद्भुताधर्मतो भवति शान्तिरित्यसी सिद्धयेऽस्तु मम विनवारणात् ॥ १ ॥ इति श्रीचन्द्रप्रभायां प्रक्रियायामाख्यातप्रत्ययाधिकारः सम्पूर्णः । अथ कृत्यप्रत्ययाधिकारः । आतुमोऽत्यादिः कृत् ||५|१|१|| धातोर्विधीयमानस्त्यादिवर्जितो वक्ष्यमाणः प्रत्ययस्तुमभिव्याप्य कृत्संज्ञः स्यात् । अत्यादिरिति किम् ? प्रणिस्ते । यदि कृत्संज्ञा भवेत् निंसनिक्षनिन्दः कृति वा इति सूत्रेण वा णत्वं स्यात् । असरूपोपवादे बोत्सर्गः प्राक्तेः ॥ इतः सूत्रादारभ्य स्त्रियां क्तिरित्यतः प्राकू योऽपचादस्तद्विषयेऽपवादे नासमानरूप उत्सर्ग औत्सर्गिको वा स्यात् । अवश्यभाव्यम् । अवश्यभवितव्यम् । अवश्यभवनीयम् । ज्ञः । ज्ञाता ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy