________________
३८९
अयदि श्रद्धा धातौ न वा ॥५॥४॥२३॥ सम्भावनार्थे धातावुपपदेऽलमर्थविषये सम्भावने गम्ये धातोः ससमी वा स्यात् । यच्छन्दश्चेन्न प्रयुज्यते । श्रधेऽवकल्पयामि भुञ्जीत भवान् । पक्षे यथाप्राप्तम् । भोक्ष्यते भवान् । अभुक्त भवान् । अयदीति किम् ? सम्भावयामि यद्भुञ्जीत भवान् । भूते भविष्यति च क्रियातिपातेऽन्तिमा ।
सतीच्छार्थात् ॥५॥४॥२४॥ सतीतिवर्तमानार्थे वर्तमानादिच्छार्थाद्धातोः ससमी वा स्यात् । पक्षे तु वर्तमानैव । इच्छेत् । इच्छति वा । उश्यात् वष्टि ।
वर्त्यति हेतुफले ॥५।४।२५॥ हेतुः कारणं फलं कार्यम् । हेतुभूते फलभूते च वस्य॑त्यर्थे वर्तमानाद्धातोः सप्तमी वा स्यात् । यदि गुरूनुपासीत शास्त्रान्तं गच्छेत् । पक्षे । यदि गुरूनुपासिष्यते शास्त्रान्तं गमिष्यति ।
कामोक्तावकच्चिति ॥५॥४॥२६॥ कामो मे भुञ्जीत भवान् इत्यादी सप्तमी भवत्येव । अकचित्तीति किम् ? कञ्चिज्जीवति मे माता । इच्छार्थे सप्तमीपञ्चम्यौ ॥ नान्या विभक्तयः । इच्छामि भुञ्जीत भवान् । भुङ्गां भवान् । एवं कामये प्राथेयेऽभिलषामि वश्मीत्यादयः। नात्रान्तिमा ।
इच्छार्थे कर्मणः सप्तमी ॥५।४।८९॥ इच्छार्थे धातावुपपदे कर्मभूतात्तुल्यकर्तृकाद्धातोः सप्तमी भवति । भुञ्जीयेति इच्छति । कर्मण इति किम् ? इच्छन् करोति । अत्र लक्षणभावः । इच्छा. मि भुतां भवान् । विध्यादयोऽर्थाः सप्तम्याः प्रागुक्ताः। विधी कटं कुयात् करोतु वा भवान् । श्राद्धः पूजां कृत्वा भुञ्जीत । निमन्त्रणे । द्विसन्ध्यमावश्यक कुर्यात् करोतु वा । आमन्त्रणे । इहासीत । आस्तां वा । अधीष्टे । पुत्रमध्यापयेवान् । सम्प्रश्ने । भोव्याकरणमधीयीय उत सिद्धान्तमधीयीय । अध्यै वा। प्रा. थैने । भो ज्योतिषमधीयीय । अध्ययै वा । प्रेषादयोऽप्युक्तचराः। प्रैषो विधिः । भवता कटः कार्यः। भवान् कटं करोतु । भवान् हि प्रेषितोऽनुज्ञातः । भवतोऽवसर: कटकरणे।
सप्तमी चोर्द्धमौहूर्तिके ॥५॥४॥३०॥ ऊर्द्धमौहर्तिकेऽर्थे वर्तमानाद्धातोः प्रैषादिषु गम्यमानेषु सप्तमी कृत्याः पञ्चमी च स्युः । ऊर्द्धमुहूर्तात् कटं कुर्यात् करोतु वा भवान् । कार्यो वा कटो भवता।
इच्छा प्रवेदभगम्ये सप्तमी सात् । नतु कश्चित् प्रयोगे