SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३८८ नाम तत्रभवान् परदारान् उपकरिष्यते । अस्त्यर्था अस्तिभवतिविद्यतयः। न श्रद्दधे अस्ति भवति विद्यते वा यत्तत्र भवान् परदारान् गमिष्यति । अत्र सप्तमी निमित्तं नास्तीति नान्तिमा। जातु यद् यदायदो सप्तमी ॥५॥४॥१७॥ एतेषूपपदेषु अश्रद्धामर्षयोर्गम्यत्वे सप्तमी स्थान भविष्यन्ती। न श्रद्दधे न क्षमे जातु तत्र भवान् सुरां पिबेत् । यत्तत्र भवान् सुरां पिबेत् । यदा तत्र भवान् सुरां पिबेत् । यदि तत्रभवान् सुरां पिबेत् । अनापि भूते क्रियातिपाते वान्तिमा । न श्रद्दधे न क्षमे जातु तत्र भवान् सुरामपास्यत् । पक्षे पियेत् । भविष्यति तु नित्यम् । जातु तत्र भवान् सुरामपास्यत् । क्षेप च यच्चयत्रे ॥५॥४॥१८॥ गर्दायां यच्च यत्रेतिशब्दयोगे अश्रद्धामर्षयोर्गम्यत्वे सप्तमी । अश्रद्धामर्षयोभविष्यन्त्याः क्षेपे तु सर्वविभक्तीनामपवादः । क्षेपे घिग्गहीमहे यच्च तत्रभवान् अस्मानाक्रोशेत् । यचस्थाने यापदक्रमणेऽप्येवम् । न श्रद्दधे न क्षमे यच्च यत्र वा तत्रभवान् अकल्प्यं सेवेत । अत्रापि सप्तमीनिमित्तमस्तीति भूते क्रियातिपाते वा क्रियातिपत्तिः । चित्रमेतत् यच यत्र वा तत्र भवानकल्प्यमसेविष्यत । पक्षे सेवेत । एष्यति तु नित्यं चिन्न यच यत्र वा तत्र भवानकल्प्यमसेविष्यत । शेषे भविष्यन्त्ययदौ ॥५॥४॥२०॥ यच्च यत्राभ्यां विनाऽन्यदुपपदं शेषः। तत्र चित्रे गम्ये भविष्यन्त्ययदौ । सर्वविभक्त्यपवादः। चित्रं मूको नाम धर्मं वक्ष्यति । नान्तिमाऽत्र । अयदाविति किम् ? चित्रं यदि सभुञ्जीत । सेप्तम्यताप्योर्बाढे ॥५॥४॥२१॥ सर्वविभत्त्यपवादः । उत्त कुर्यात् । अपि कुर्यात् । बाढं करिष्यतीत्यर्थः । उताकरिष्यत् । अप्यकरिष्यत् । वोतात्प्रागिति निवृत्तम् । इतःप्रभृति सप्तमी. निमित्त सति भूते भविष्यति च क्रियातिपत्तिरित्यर्थः । बाढ इति किम् ? उत दण्डः पतिष्यति । प्रश्नो गम्यते । सम्भावनेऽलमर्थे तदर्थानुक्तौ ॥५॥४॥२२॥ अलमर्थः सामर्थ्यम् । तद्विषये सम्भावने श्रद्धाने गम्येऽलमर्थार्थशब्दाप्रयोगेऽपि सप्तमी स्यात् । सर्वविभक्त्यपवादः। शक्यसम्भावने अपि मासमुपवसेत् । अपि गौतमीयमन्हाधीयीत । अशक्यासम्भावनेऽपि शिरसा पर्वतं भि. न्धात् । अपि समुद्रं दोभ्यो तरेत् । १ माढार्थयोरुताप्योरुपपदयोः सप्तमी सात
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy